5-2-89 छन्दसि परिपन्थिपरिपरिणौ पर्यवस्थातरि प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा इनिः
छन्दसि पर्यवस्थातरि परिपन्थि-परिपरिणौ (निपात्येते)
वेदेषु 'परिपन्थिन्' तथा 'परिपरिन्' एतौ शब्दौ 'बलवान् शत्रुः' अस्मिन् अर्थे निपात्येते ।
परिपन्थिन् परिपरिन् इत्येतौ शब्दौ छन्दसि विषये निपात्येते पर्यवस्थातरि वाच्ये। पर्यवस्थाता प्रतिपक्षः सपत्न उच्यते। मा त्वा॑ परिप॒रिणो॑ विद॒न् मा त्वा॑ परिप॒न्थिनो॑ विद॒न् (मा०सं० ४.३४)॥
लोके तु परिपन्थिशब्दो न न्याय्यः ॥
'बलशाली शत्रुः (dangerous / powerful enemy)' अस्मिन् अर्थे वेदेषु प्रयुज्यमानौ 'परिपन्थिन्' तथा 'परिपरिन्' एतौ शब्दौ अनेन सूत्रेण निपात्येते । यथा - 'मा त्वा परिपरिणो विदन् मा त्वा परिपन्थिनो विदन्' (शुक्ल-यजुर्वेदः 4.34) । अत्र 'त्वाम् बलशालिनः शत्रवः न प्राप्नुयुः' इति अर्थः विद्यते । विशेषः - सूत्रे प्रयुक्तः 'पर्यवस्थातरि' इति शब्दः 'पर्यवस्थातृ' इत्यस्य सप्तम्येकवचनमस्ति । 'पर्यवस्थातृ' इत्युक्ते बलवान् शत्रुः । अस्मात् शब्दात् स्वार्थे इनि-प्रत्ययः, तथा च अस्मिन् सूत्रे विद्यमानस्य 'अवस्थातृ' इत्यस्य 'पन्थि' / 'परि' एतौ आदेशौ निपात्येते, येन एते रूपे सिद्ध्यतः - पर्यवस्थातृ + इनि → परिपन्थि / परिपरि + इनि → परिपन्थिन्, परिपरिन् [<<यस्येति च>> 6.4.148 इति इकारलोपः] स्मर्तव्यम् - एतौ द्वौ शब्दौ केवलम् वेदेषु एव साधू स्तः । भाषायाम् एतयोः प्रयोगः न भवति ।
<<छन्दसि परिपन्थिपरिपरिणौ पर्यवस्थातरि>> - छन्दसि परिपन्थि । परिपन्थिन्, परिपरिन् एतौ शब्दौ छन्दसि निपात्येते पर्यवस्थातरि वाच्ये । पर्यवस्थातृशब्दादिनिप्रत्यये अवस्थातृशब्दस्य पन्थादेसे परिपन्थिन्शब्दः । पर्यवस्थातृशब्दादिनिप्रत्यये अवस्थातृशब्दस्य पर इत्यादेसे परिपरिन्शब्दः ।मा त्वा विदन्परिपन्थिनः, मा वा परिपरिणो विदन् इति श्रुतौ उदाहरणम् । इदं सूत्रं वैदिकप्रक्रियायामेव व्याख्यातुमुचितम् ।
अत्र पर्यवस्थातृशब्दात्स्वार्थे इनिप्रत्ययोऽवस्थातृशब्दस्य च पन्थि, परि - इत्येतावादेशौ निपात्येते। भाषायां तु परिपन्थिशब्दस्यासाधुः प्रयोगः ॥