इष्टादिभ्यश्च

5-2-88 इष्टादिभ्यः च प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा अनेन इनिः

Sampurna sutra

Up

'अनेन' (इति) इष्टादिभ्यः इनिः

Neelesh Sanskrit Brief

Up

इष्टादिगणस्य शब्देभ्यः 'अनेन' इति सन्दर्भे 'इनि' प्रत्ययः भवति ।

Kashika

Up

अनेनेत्येव। इष्टादिभ्यः प्रातिपदिकेभ्योऽनेनेत्यस्मिन्नर्थ इनिः प्रत्ययो भवति। इष्टमनेन इष्टी यज्ञे । पूर्ती श्राद्धे। <<क्तस्येन्विषयस्य कर्मणि>> (वा० २.३.३६) इति सप्तम्युपसंख्यायते॥ इष्ट। पूर्त। उपसादित। निगदित। परिवादित। निकथित। परिकथित। संकलित। निपठित। संकल्पित। अनर्चित। विकलित। संरक्षित। निपतित। पठित। परिकलित। अर्चित। परिरक्षित। पूजित। परिगणित। उपगणित। अवकीर्ण। परित। आयुक्त। आम्नात। श्रुत। अधीत। आसेवित। अपवारित। अवकल्पित। निराकृत। उपकृत। उपाकृत। अनुयुक्त। उपनत। अनुगुणित। अनुपठित। व्याकुलित। निगृहीत। इष्टादिः॥

Siddhanta Kaumudi

Up

इष्टमनेन इष्टी । अधीती ॥

Laghu Siddhanta Kaumudi

Up

इष्टमनेन इष्टी । अधीती ॥ इति भवनाद्यर्थकाः ॥ १२ ॥

Neelesh Sanskrit Detailed

Up

इष्टादिगणस्य प्रातिपदिकेभ्यः 'अनेन' अस्मिन् सन्दर्भे 'इनि' इति प्रत्ययः भवति । इष्टादिगणः अयम् - इष्ट, पूर्त, उपसादित, निगदित, परिवादित, निकथित, परिकथित, परिगदित, सङ्कलित, निपठित, सङ्कल्पित, अनर्चित, विकलित, संरक्षित, निपतित, पठित, परिकलित, अर्चित, परिरक्षित, पूजित, गणित, परिगणित, उपगणित, अनुगणित, अवकीर्ण, परित, आयुक्त, आम्नात, श्रुत, अधीत, आसेवित, अपवारित, अवकल्पित, निराकृत, उपकृत, उपाकृत, अनुयुक्त, उपनत, अनुगुणित, अनुपठित, व्याकुलित, निगृहीत, निषादित । उदाहरणानि - 1. अनेन इष्टम् सः इष्टी । The one who desired something - इत्यर्थः । 2. अनेन पूर्तम् सः पूर्ती । The one who has completed certain work । 4. अनेन उपसादितम् सः उपसादिती । The one who has come near । आदयः । एतेषाम् शब्दानां प्रयोगः शिष्टप्रयोगं दृष्ट्वैव कर्तव्यः । विशेषः - इष्टादिगणे विद्यमानाः सर्वे शब्दाः 'क्त'प्रत्ययान्ताः सन्ति । एतेभ्यः निर्मिताः इन्-प्रत्ययान्तशब्दानाम् वाक्ये यदा प्रयोगः भवति, तदा वाक्ये विद्यमानस्य कर्मपदस्य सप्तमी विभक्तिः विधीयते । अस्मिन्नेव विषये काशिकाकारः वदति - 'क्तस्य इन्-विषयस्य कर्मणि इति सप्तम्युपसङ्ख्यायते' । यथा - यज्ञे इष्टी ( The one who desired a यज्ञ) । अत्र 'इष्टी' इति कर्ता, तस्य कर्मपदम् 'यज्ञ' इति । वाक्ये इदं कर्मपदम् सप्तम्या निर्दिश्यते, अतः 'यज्ञे इष्टी' इति वाक्यप्रयोगः क्रियते । एवमेव - श्राद्धे पूर्ती (The one who completed a श्राद्ध) । आचार्ये उपसादी (The one who has approached the teacher) - आदयः । अत्र सर्वत्र कर्मपदस्य सप्तमी विभक्तिः विधीयते ।

Balamanorama

Up

<<इष्टादिभ्यश्च>> - इष्टादिभ्यश्च । इष्टादिभ्यस्तृतीयान्तेभ्योऽनेनेत्यर्थे इनिः स्यादित्यर्थः ।

Padamanjari

Up