पूर्वादिनिः

5-2-86 पूर्वात् इनिः प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा अनेन

Sampurna sutra

Up

index: 5.2.86 sutra: पूर्वादिनिः


'अनेन' (इति) पूर्वात् इनिः

Neelesh Sanskrit Brief

Up

index: 5.2.86 sutra: पूर्वादिनिः


'अनेन (कृतम्)' अस्मिन् अर्थे कालवाचकात् 'पूर्व' शब्दात् इनि-प्रत्ययः भवति ।

Kashika

Up

index: 5.2.86 sutra: पूर्वादिनिः


अनेन इति प्रत्ययार्थः कर्ताऽनुवर्तते। न च क्रियामन्तरेण कर्ता सम्भवतीति यां काञ्चित् क्रियामध्याहृत्य प्रत्ययो विधेयः। पूर्वातनेन इत्यस्मिन्नर्थे इनिः प्रत्ययो भवति। पूर्वं गतमनेन पीतम् भुक्तं वा पूर्वी, पूर्विणौ, पूर्विणः।

Siddhanta Kaumudi

Up

index: 5.2.86 sutra: पूर्वादिनिः


पूर्वं कृतमनेन पूर्वी ॥

Laghu Siddhanta Kaumudi

Up

index: 5.2.86 sutra: पूर्वादिनिः


पूर्वं कृतमनेन पूर्वी॥

Neelesh Sanskrit Detailed

Up

index: 5.2.86 sutra: पूर्वादिनिः


अनेन सूत्रेण 'पूर्व' इति शब्दात 'इनि' इति प्रत्ययं कृत्वा 'पूर्विन्' इति प्रातिपदिकस्य निर्माणम् क्रियते । इदम् प्रातिपदिकम् कस्मिन् अर्थे प्रयुज्यते इति सूत्रात् तु न स्पष्टीभवति परन्तु व्याख्यानैः अस्य स्पष्टीकरणम् दीयते । केनचन मनुष्येन काचन क्रिया यदि 'पूर्वस्मिन् काले' कृता विद्यते, तर्हि तस्य मनुष्यस्य निर्देशः 'पूर्वी' इत्यनेन भवति । यथा -

  1. पूर्वमनेन गतम् सः पूर्वी । One who has left in past.

  2. पूर्वमनेन पीतम् सः पूर्वी । One who has drank in past.

  3. पूर्वमनेन भुङ्क्तम् सः पूर्वी । One who has ate in past.

  4. पूर्वमनेन कृतम् सः पूर्वी । One who has done in past.

शिष्टप्रयोगं दृष्ट्वैव अस्य सूत्रस्य प्रयोगः करणीयः इति स्मर्तव्यम् ।

Balamanorama

Up

index: 5.2.86 sutra: पूर्वादिनिः


पूर्वादिनिः - पूर्वादिनिः । अनेनेति कर्तृतृतीयान्तमनुवर्तते । कां क्रियां प्रति कर्तेत्याकाङ्क्षायां भुक्तं पीतमित्यादि यत्किञ्चित्क्रियापदमध्याहार्यम् । उपस्थितत्वात् कृञर्छभूतं क्रियासामान्यमेव प्रतीयते । ततश्च पूर्वं कृतमनेनेति विग्रहे कृतमित्यादिक्रियाविशेषणात्पूर्वशब्दादनेनेत्यर्थे इनिः स्यादित्यर्थः ।

Padamanjari

Up

index: 5.2.86 sutra: पूर्वादिनिः


पूर्वं गतमनेनेत्यादि। क्रियाविशेषणाद् द्वितीयान्तात्प्रत्ययः ॥