5-2-81 कालप्रयोजनात् रोगे प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा कन्
काल-प्रयोजनात् रोगे संज्ञायाम्
रोगस्य निर्देशार्थम् कालवाचिशब्दात् प्रयोजनवाचिशब्दात् च संज्ञायाः निर्देशार्थम् 'कन्' प्रत्ययः भवति ।
अर्थलभ्या समर्थविभक्तिः। कालात् प्रयोजनात् च यथायोगं समर्थविभक्तियुक्ताद् रोगेऽभिधेये कन् प्रत्ययो भवति। कालो दिवसादिः। प्रयोजनं कारणं रोगस्य फलं वा। द्वितीयेऽह्नि भवो द्वितीयको ज्वरः। चतुर्थकः। प्रयोजनात् — विषपुष्पैर्जनितो विषपुष्पको ज्वरः। काशपुष्पकः। उष्णं कार्यमस्य उष्णको ज्वरः। शीतको ज्वरः। उत्तरसूत्रादिह संज्ञाग्रहणमपकृष्यते। तेनायं प्रकारनियमः सर्वो लभ्यते॥
कालवचनात्प्रयोजनवचनाच्च कन् स्याद्रोगे । द्वितीयेऽहनि भवोद्वितीयको ज्वरः । प्रयोजनं कारणं रोगस्य फलं वा । विषपुष्पैर्जनितो विषपुष्पकः । उष्णं कार्यमस्य उष्णकः । रोगे किम् । द्वितीयो दिवसोऽस्य ॥
अनेन सूत्रेण 'कालवाचि'शब्दात् तथा 'प्रयोजनवाचि'शब्दात् 'रोगस्य संज्ञायाः' निर्देशार्थम् कन्-प्रत्ययः भवति । अस्मिन् सूत्रे विशिष्टा समर्थविभक्तिः न विद्यते, यतः उभयोः विषये निर्देशसामर्थ्यात् भिन्ना समर्थविभक्तिः गृह्यते । क्रमेण पश्यामः - 1. कालवाचिनः शब्दाः - यैः शब्दैः कालस्य निर्देशः क्रियते (यथा - दिवसः, रात्रिः - आदयः) तेषाम् विशेषणरूपेण प्रयुक्तेभ्यः शब्देभ्यः सप्तमीसमर्थेभ्यः रोगस्य निर्देशार्थम् 'कन्' प्रत्ययः भवति । यथा - अ) द्वितीये अह्नि भवः = द्वितीय + क → द्वितीयकः ज्वरः । A fever that happens on the second day. आ) चतुर्थे अह्नि भवः = चतुर्थ + क → चतुर्थकः ज्वरः । विशेषः - अत्र प्रत्ययविधानम् कालवाचिशब्दात् न भवति अपितु 'द्वितीय', 'चतुर्थ' एतादृशात् विशेषणवाचिशब्दात् भवति । अस्य ज्ञापकार्थम् एव अग्रिमसूत्रात् 'संज्ञायाम्' इत्यस्य अपकर्षः अत्र क्रियते । विशिष्टशब्दानां सिद्ध्यर्थम् एव अनेन सूत्रेण प्रत्ययविधानाम् क्रियते - इति अनेन स्पष्टीभवति । 2. प्रयोजनवाचिनः शब्दाः - यैः शब्दैः रोगस्य कारणम् (= निर्माणकारणम्, trigger) उत फलम् ( = परिणामः, effect) निर्दिश्यते, तेभ्यः शब्देभ्यः तृतीयासमर्थेभ्यः रोगस्य निर्देशार्थम् कन् प्रत्ययः भवति । यथा - अ) विषपुष्पैः जनितः = विषपुष्प + कन् → विषपुष्पकः ज्वरः । A fever caused due to a certain type of flowers. आ) काषपुष्पैः जनितः काशपुष्पकः ज्वरः । इ) उष्णम् कार्यमस्य = उष्ण + कन् → उष्णकः ज्वरः । अत्र रोगस्य परिणामः / फलम् 'उष्णता' इति विद्यते, अतः 'उष्ण'शब्दात् अत्र कन्-प्रत्ययः भवति । A fever that causes rise in temperature. ई) शीतम् कार्यमस्य = शीत + कन् → शीतकः ज्वरः । A fever that causes cold. अत्रापि 'संज्ञायाम्' इत्यस्य अपकर्षेण विशिष्टशब्दानाम् सिद्ध्यर्थम् एव अस्य सूत्रस्य प्रयोगः भवति ।
<<कालप्रयोजनाद्रोगे>> - कालप्रयोजनाद्रोगे । काल, प्रयोजन — अनयोः समाहारद्वन्द्वः । तदाह — कालवचनात्प्रयोजनवचनाच्चेति ।यथोचितविभक्त्यन्ता॑दिति शेषः । कालशब्देनाऽत्र कालवृत्तिःपूरणप्रत्ययान्तो द्वितीयादिशब्द एव गृह्रते, न तु मासादिशब्दः, व्याख्यानात् । तदाह — द्वितीयेऽहनीति । प्रयुज्यतेऽनेनेति करणे ल्युटिप्रयोजनं॑साधनम् । कर्मणि ल्युटि तु फलम् । तदाह — प्रयोजनं कारणं रोगस्य फलं वेति ।