5-2-80 उत्कः उन्मनाः प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा कन्
index: 5.2.80 sutra: उत्क उन्मनाः
उन्मनाः (इति) उत्कः (निपात्यते)
index: 5.2.80 sutra: उत्क उन्मनाः
'उन्मनाः' अस्मिन् अर्थे 'उत्कः' अयम् शब्दः निपात्यते ।
index: 5.2.80 sutra: उत्क उन्मनाः
उत्कः इति निपात्यते, उन्मनाश्चेद् स भवति। उद्गतं मनो यस्य स उन्मनाः। उच्छब्दात् ससाधनक्रियावचनात् तद्वति कन् प्रत्ययो निपात्यते। उत्को देवदत्तः। उत्कः प्रवासी। उत्सुकः इत्यर्थः।
index: 5.2.80 sutra: उत्क उन्मनाः
उद्गतमनस्कवृत्तेरुच्छब्दात्स्वर्थे कन् । उत्कः उत्कण्ठितः ॥
index: 5.2.80 sutra: उत्क उन्मनाः
उद्गतम् मनः यस्य सः उन्मनाः । यस्य मनः नित्यम् विचलितमस्ति, सः (The one whose mind continuously wonders) तस्य निर्देशार्थमनेन सूत्रेण 'उत्क' इति शब्दः निपात्यते । 'उत्सुकः', 'उत्कण्ठितः' (curious / eager) एतयोः अर्थयोः अपि अयम् शब्दः प्रयुज्यते । यथा - उत्कः देवदत्तः, उत्कः प्रवासी - आदयः ।
व्याख्यानैः 'उत्' इत्यस्मात् उपसर्गात् 'तद्वान्' (= उद्गतम् मनः अस्य सः / One having the a wandering mind) अस्मिन् अर्थे 'कन्' प्रत्ययं कृत्वा अयम् शब्दः निपात्यते । उत् + कन् → उत्क ।
index: 5.2.80 sutra: उत्क उन्मनाः
उत्क उन्मनाः - उत्क उन्मनाः । उद्गतमनस्कवृत्तेरिति । उत्कण्टितवृत्तेरित्यर्थः ।
index: 5.2.80 sutra: उत्क उन्मनाः
उच्छब्दात्ससाधनक्रियावचनादिति। साधनमुमनः, क्रियाउगमनम्, उद्रते मनसि वर्तमानादित्यर्थः। यद्वतीति। उद्गतं मनो यस्य तस्मिन्नित्यर्थः। उत्सुकःऊत्कण्ठितः ॥