पार्श्वेनान्विच्छति

5-2-75 पार्श्वेन अन्विच्छति प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा कन्

Sampurna sutra

Up

index: 5.2.75 sutra: पार्श्वेनान्विच्छति


'पार्श्वेन अन्विच्छति' (इति) कन्

Neelesh Sanskrit Brief

Up

index: 5.2.75 sutra: पार्श्वेनान्विच्छति


'अन्विच्छति' अस्मिन् अर्थे तृतीयासमर्थात् 'पार्श्व'शब्दात् कन्-प्रत्ययः भवति ।

Kashika

Up

index: 5.2.75 sutra: पार्श्वेनान्विच्छति


पार्श्वशब्दात् तृतीयासमर्थादन्विच्छति इत्यस्मिन्नर्थे कन् प्रत्ययो भवति। अनृजुरुपायः पार्श्वम्, तेन अर्थानन्विच्छति पार्श्वकः। मायावी, कौसृतिकः, जालिकः उच्यते।

Siddhanta Kaumudi

Up

index: 5.2.75 sutra: पार्श्वेनान्विच्छति


अनृजुरुपायः पार्श्वं तेनान्विच्छति पार्श्वकः ॥

Neelesh Sanskrit Detailed

Up

index: 5.2.75 sutra: पार्श्वेनान्विच्छति


अन्विच्छति (= इच्छति) अस्मिन् अर्थे 'पार्श्व' (= अयोग्यः उपायः / कुटिलः मार्गः) शब्दात् तृतीयासमर्थात् 'कन्' प्रत्ययः भवति । यः मनुष्यः किञ्चन वस्तुम् / लाभमनुचितमार्गेण (= अनृजुणा उपायेन) इच्छति, तस्य निर्देशार्थम् 'पार्श्व' शब्दात् कन् प्रत्ययः भवति ।

अनृजुः उपायः पार्श्वः । तेन अन्विच्छति सः = पार्श्व + क = पार्श्वकः । One who desires to obtain certain things by inappropriate measures इत्याशयः ।

Balamanorama

Up

index: 5.2.75 sutra: पार्श्वेनान्विच्छति


पार्श्वेनान्विच्छति - पार्ोनाऽन्विच्छति । तृतीयान्तात्पार्ाशब्दादन्विच्छतीत्यर्थ संज्ञायां कन्स्यादित्यर्थः । अन्वेषणं=मार्गणम् । पार्वआमिव पार्ाम्नुजुरुपायः ।ऋजूपायेन अन्वेष्टव्यानर्थान्योऽनृजुनोपायेनान्विच्छति स पार्ाक॑ इति भाष्यम् । तदाह — अनृजुरित्यादि ।

Padamanjari

Up

index: 5.2.75 sutra: पार्श्वेनान्विच्छति


अनुजुरुपायः पार्श्वमिति। तिर्यगवस्तानात्पार्श्वं तावदनृजु, तद्वदन्योऽप्यनृजुरुपाय एवभुच्यत इत्यर्थः। य ऋजुनोपायेनान्वेष्टव्यानर्थाननृजुनाऽन्विच्छति स पार्श्वकः। कुत्सितो मार्गौकुसृतिः, जालमुआनायः, ताभ्यां चरतीति कौसृतिकौ जालिकः ॥