5-2-76 अयःशूलदण्डाजिनाभ्यां ठक्ठञौ प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा कन् अन्विच्छति
index: 5.2.76 sutra: अयःशूलदण्डाजिनाभ्यां ठक्ठञौ
'अयःशूल-दण्डाजिनाभ्यामन्विच्छति' (इति) ठक्-ठञौ
index: 5.2.76 sutra: अयःशूलदण्डाजिनाभ्यां ठक्ठञौ
तृतीयासमर्थाभ्याम् 'अयःशूल' तथा 'दण्डाजिन' शब्दाभ्याम् 'अन्विच्छति' इत्यस्मिन् अर्थे यथासङ्ख्यम् ठक् तथा ठञ् प्रत्ययौ भवतः ।
index: 5.2.76 sutra: अयःशूलदण्डाजिनाभ्यां ठक्ठञौ
अन्विच्छति इत्येव। अयःशूलदण्डाजिनाह्ब्यां तृतीयासमर्थाभ्यामन्विच्छति इत्येतस्मिन्नर्थे ठक्ठञौ प्रत्ययौ भवतः। तीक्ष्णः उपायः अयञ्शूलमुच्यते। तेन अन्विच्छति आयःशूलिकः साहसिकः इत्यर्थः दम्भो दण्डाजिनम्, तेन अन्विच्छति दाण्डाजिनिकः। दाम्भिकः इत्यर्थः।
index: 5.2.76 sutra: अयःशूलदण्डाजिनाभ्यां ठक्ठञौ
तीक्ष्ण उपायोऽयः शूलं तेनान्विच्छति आयःशूलिकः - साहसिकः । दण्डाजिनं दम्भः, तेनान्विच्छति दाण्डाजिनिकः ॥
index: 5.2.76 sutra: अयःशूलदण्डाजिनाभ्यां ठक्ठञौ
'अन्विच्छति' इत्युक्ते इच्छां करोति । अस्मिन् अर्थे 'अयःशूल' शब्दात् ठक्-प्रत्ययः , तथा 'दण्डाजिन' शब्दात् ठञ्-प्रत्ययः अनेन सूत्रेण उच्यते । क्रमेण पश्यामः -
अयःशूलः - 'अयः' इत्युक्ते लोहः । शूलः इति किञ्चन शस्त्रम् (spear)। लोहस्य शूलः यादृशः तीक्ष्णः अस्ति, तादृशेनैव तीक्ष्णेन / घोरेण उपायेन यः कार्यपूर्तिम् इच्छति, तस्य निर्देशार्थम् 'अयःशूल' शब्दात् ठक् प्रत्ययः भवति । अयःशूलेन अन्विच्छति सः आयःशूलिकः । One who wishes to take extreme measures to achieve something इत्यर्थः ।
'दण्डाजिन' - 'दण्ड' (rod) तथा 'अजिन' (fur used for sitting) एते द्वे संन्यासिनाम् वस्तुनी । यः कोऽपि स्वयं संन्यासी नास्ति, सः एते वस्तू धारयितुम् न अर्हति । परन्तु, संन्यासी न सत्यपि एतेषाम् एव साहाय्येन (इत्युक्ते, 'अहम् संन्यासी अस्मि' इति दम्भं कृत्वा) यः कार्यपूर्तिम् इच्छति, तस्य निर्देशार्थम् 'दण्डाजिन' शब्दात् ठञ्-प्रत्ययः भवति । दण्डाजिनेन अन्विच्छति सः दाण्डाजिनिकः ।One who wishes to project himself as a संन्यासिन् in order to achieve something - इत्याशयः ।
ज्ञातव्यम् - अस्मिन् सूत्रे 'अयःशूलः' तथा 'दण्डाजिनः' एतौ द्वौ अपि शब्दौ लक्ष्यार्थेन गृह्येते । अत्र 'अयःशूलस्य साहाय्येन इच्छति' उत 'दण्डाजिनस्य साहाय्येन इच्छति' एतादृशः अर्थः न क्रियते ।
index: 5.2.76 sutra: अयःशूलदण्डाजिनाभ्यां ठक्ठञौ
अयःशूलदण्डाजिनाभ्यां ठक्ठञौ - अयःशूल । अयःशूल, जण्डाजिन आभ्यां, तृतीयान्ताभ्यामन्विच्छतीत्यर्थे संज्ञायां ठक्ठञौ स्त इत्यर्थः । अयःशूलमिव अयःशूलम् । साहसमित्यर्थः । यो मृदुनोपायेनन्विष्टव्यानर्थास्तीक्ष्णोपायेनान्विच्छति स आयःशूलिक॑ इति भाष्यम् । तदाह — तीक्ष्णोपाय इत्यादि । दम्भ इति । दम्भार्थत्वाद्दण्डाजिनशब्दो दम्भे लाभणिक इति भावः ।
index: 5.2.76 sutra: अयःशूलदण्डाजिनाभ्यां ठक्ठञौ
तृतीयासमर्थाभ्यामिति। निर्द्देशादेव तृतीया हीयम्, न पञ्चमी; पूर्वेण साहचर्यात्। तीक्ष्ण उपायोऽयःशूलमिति। यथायःशुलं तीक्षणं तथान्योऽपि तीक्षणं उपायोऽयःशूलमित्युपचारादुच्यत इत्यर्थः। दम्भोदण्डाजिनमिति। दम्भसाधनत्वात्। दम्भवन्तो हि प्रायेण दण्कडमजिनं च धारयन्ति। तेनेति। दम्भेन तु धारयतु मा वाऽदीधरदित्यर्थः, सर्वत्र मुख्यार्थाग्रहणेऽनभिधानमेव हेतुः ॥