5-2-74 अनुकाभिकाभीकः कमिता प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा कन्
index: 5.2.74 sutra: अनुकाभिकाभीकः कमिता
'कमिता' (इति) अनुक-अभिक-अभीकाः (निपात्यन्ते)
index: 5.2.74 sutra: अनुकाभिकाभीकः कमिता
'इच्छति सः' अस्मिन् अर्थे 'अनुक', 'अभिक', 'अभीक' - एते शब्दाः निपात्यन्ते ।
index: 5.2.74 sutra: अनुकाभिकाभीकः कमिता
अनुक अभिक अभीक इत्येते शब्दाः कन्प्रत्ययान्ता निपात्यन्ते कमिता इत्येतस्मिन्नर्थे। अभेः पक्षे दीर्घत्वं चनिपात्यते। अनुकामयते अनुकः। अभिकः। अभीकः।
index: 5.2.74 sutra: अनुकाभिकाभीकः कमिता
अन्वभिभ्यां कन् । अभेः पाक्षिको दीर्घश्च । अनुकामयते अनुकः । आभिकामयते अभिकः । आभीकः ॥
index: 5.2.74 sutra: अनुकाभिकाभीकः कमिता
'कमिता' इति 'कम्' धातोः तृच्-प्रत्ययान्तरूपम् । कामयते सः कमिता - इति अर्थः । अस्मिन् अर्थे वर्तमानसूत्रेण त्रयः शब्दाः निपात्यन्ते । एते सर्वे शब्दाः 'कन्' प्रत्ययान्ताः सन्तीति व्याख्यानैः स्पष्टीभवति ।
अनुकामयते सः = अनु + कन् → अनुक ।
अभिकामयते सः = अभि + कन् → अभिक ।
अभिकामयते सः = अभि + कन् → अभीक । अत्र अङ्गस्य दीर्घादेशः निपात्यते ।
index: 5.2.74 sutra: अनुकाभिकाभीकः कमिता
अनुकाभिकाभीकः कमिता - अनुकाभिका । अनुक, अभिक, अभीक-एषां समाहारद्वन्द्वः । सौत्रं पुंस्त्वम् ।
index: 5.2.74 sutra: अनुकाभिकाभीकः कमिता
सूत्रे समाहारद्वन्द्वे लिङ्गव्यत्ययः, अनुशब्दादभिशब्दाच्च ससाधनक्रियावचनात्स्वार्थे कन्निपात्यत इत्याह - अनुकामयतेऽनुक इति। ठभिकामयतेऽ इत्येतद् गम्यमानत्वान्नोक्तम् ॥