चित्तवति नित्यम्

5-1-89 चित्तवति नित्यम् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा ठञ् कालात् द्विगोः वर्षात्

Sampurna sutra

Up

index: 5.1.89 sutra: चित्तवति नित्यम्


'तम् भूतः' (इति) वर्षात् द्विगोः चित्तवति नित्यम् लुक्

Neelesh Sanskrit Brief

Up

index: 5.1.89 sutra: चित्तवति नित्यम्


'भूतः' अस्मिन् अर्थे द्वितीयासमर्थात् द्विगु-शब्दस्य उत्तरपदे विद्यमानात् 'वर्ष'शब्दात् विहितस्य प्रत्ययस्य चित्तवति अभिधेये नित्यम् लुक् भवति ।

Kashika

Up

index: 5.1.89 sutra: चित्तवति नित्यम्


चित्तवति प्रत्ययार्थेऽभिधेये वर्षशब्दान्ताद् द्विगोर्निर्वृत्तादिष्वर्थेषु उत्पन्नस्य प्रत्ययस्य नित्यं लुग् भवति। पूर्वेण विकल्पे प्राप्ते वचनम्। द्विवर्षो दारकः। चित्तवतीति किम्? द्विवर्षीणो व्याधिः।

Siddhanta Kaumudi

Up

index: 5.1.89 sutra: चित्तवति नित्यम्


वर्षशब्दान्ताद्द्विगोः प्रत्ययस्य नित्यं लुक् स्यात् चेतने प्रत्ययार्थे । द्विवर्षो दारकः ॥

Neelesh Sanskrit Detailed

Up

index: 5.1.89 sutra: चित्तवति नित्यम्


अस्य सूत्रस्य अर्थज्ञानात् पूर्वमादौ केचन विषयाः ज्ञातव्याः -

  1. अस्मिन् सूत्रे तमधीष्टो भृतो भूतो भावी 5.1.80 इत्यस्मात् केवलम् 'तम् भूतः' इत्येव अनुवर्तते , अन्ये शब्दाः न । (अस्मिन् विषये सूत्रे स्पष्टरूपेण किमपि नोच्यते, परन्तु न्यासकारः पदमञ्जरीकारश्च एतम् विषयम् स्पष्टीकुरुतः) ।

  2. 'चित्तवति' इति 'चित्तवत्' शब्दस्य सप्तम्येकवचनम् । यः कोऽपि चेतनायुक्तः / जीवितः (alive) अस्ति तस्य निर्देशः 'चित्तवान्' इत्यनेन भवति ।

  3. 'द्वे वर्षे भूतः' इत्यस्मिन् अर्थे यत्र तद्धितान्तशब्दः 'चितवान्' इति अर्थं निर्देशयति, तत्र वर्षाल्लुक् च 5.1.88 इत्यनेन प्रत्ययस्य विकल्पेन लुकि प्राप्ते वर्तमानसूत्रेण सः लुक् नित्यम् विधीयते, न हि विकल्पेन ।

यथा - द्वे वर्षे भूतः दारकः (पुत्रः) = द्विवर्षः दारकः । अस्मिन् उदाहरणे 'दारक' इत्यनेन चित्तवतः (जीवितस्य) निर्देशः क्रियते, अतः अत्र पूर्वसूत्रेण ख-प्रत्ययस्य विकल्पेन लुकि प्राप्ते सः वर्तमानसूत्रेण नित्यरूपेण भवति । 'द्विवर्षः दारकः' इत्युक्ते सः पुत्रः यः द्वे वर्षे जीवित्वा मृत्युं प्राप्तवान् - इति ।

ज्ञातव्यम् -

  1. अस्य सूत्रस्य विषये काशिकायाः केषुचन संस्करणेषु 'निर्वृत्तादिष्वर्थेषु उत्पन्नस्य प्रत्ययस्य लुक् भवति' इति निर्दिश्यते । अयम् निर्देशः सर्वथा प्रामादिकः अस्ति । अस्य सूत्रस्य प्रसक्तिः निर्वृत्तादिषु अर्थेषु न भवति, केवलम् 'भूत' अस्मिन्नेव अर्थे भवति । यथा, 'द्वे वर्षे अधीष्टः अध्यापकः' इत्यत्र यद्यपि अध्यापकः चितवान् अस्ति, तथापि वर्तमानसूत्रेण प्रत्ययस्य नित्यम् लुक् न भवति, अपितु वर्षाल्लुक् च 5.1.88 इत्यनेन पूर्वसूत्रेण केवलं विकल्पेनैव भवति , येन 'द्विवर्षीणः / द्विवार्षिकः अध्यापकः' एते रूपे अपि सिद्ध्यतः । अयम् बिन्दुः न्यासे तथा पदमञ्जर्याम् - उभयत्र निर्दिष्टः अस्ति ।

  2. चित्तवतः निर्देशः न क्रियते चेत् वर्तमानसूत्रस्य प्रसक्तिः नास्ति । यथा, 'द्वे वर्षे भूतः ज्वरः' इत्यत्र वर्तमानसूत्रेण नित्यम् लुक् न भवति, अपितु पूर्वसूत्रेण वैकल्पिकः एव लुक् विधीयते । द्वे वर्षे भूतः द्विवर्षीणः द्विवार्षिकः द्विवर्षः वा ज्वरः ।

Balamanorama

Up

index: 5.1.89 sutra: चित्तवति नित्यम्


चित्तवति नित्यम् - चित्तवति नित्यं । प्रत्ययस्येति । खस्य ठञश्चेत्यर्थः । दारकः । बालकः ।

Padamanjari

Up

index: 5.1.89 sutra: चित्तवति नित्यम्


यदि चितवति नित्यं लुग्भवति, कथं'वर्षस्याभविष्यति' इत्यत्र वक्ष्यति-द्वे वर्षे अधीष्टो भृतो वा कर्म करिष्यति द्विवार्षिको मनुष्य इति, न हि नित्ये लुकि अधीष्टभृतयोरुत्पन्नस्य चितवति श्रवणमुपपद्यते ? एवं तर्हि भूत एवोत्पन्नस्य प्रत्ययस्य लुगिष्यते, न सर्वत्र। एतच्च नित्यग्रहणाल्लभ्यते। आरम्भसामर्थ्यादेव हि नित्यो लुक् सिद्धः, तत्र नित्यग्रहणं विशिष्टेऽर्थे नित्यं लुग् यथा स्यात्। स पुनर्विशिष्टोऽर्थो भूत एव; व्याख्यानात्। तेनाधीष्टादौ पूर्वेण विभाषयैव लुग्भविष्यति ॥