द्विगोर्वा

5-1-86 द्विगोः वा प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा ठञ् कालात् सभायाः खः

Sampurna sutra

Up

index: 5.1.86 sutra: द्विगोर्वा


'तमधीष्टो भृतो भूतो भावी' (तथा) 'तेन निर्वृत्तम्' (इति) समायाः द्विगोः खः वा

Neelesh Sanskrit Brief

Up

index: 5.1.86 sutra: द्विगोर्वा


'अधीष्टः', 'भृतः', 'भूतः', 'भावी' एतेषु अर्थेषु द्वितीयासमर्थात्, तथा च 'निर्वृत्तम्' अस्मिन् अर्थे तृतीयासमर्थात् द्विगु-शब्दस्य उत्तरपदे विद्यमानात् 'समा' शब्दात् विकल्पेन ख-प्रत्ययः भवति ।

Kashika

Up

index: 5.1.86 sutra: द्विगोर्वा


समायाः खः 5.1.85 इत्येव। समाशब्दान्ताद् द्विगोः निर्वृत्तादिसु अर्थेषु पञ्चसु वा खः प्रत्ययो भवति। पूर्वेण नित्यःप्राप्तो विकल्प्यते। प्राग्वतेः सङ्ख्यापूर्वपदानां तदन्तग्रहणमलुकि 7.3.17 इति प्राप्तिरस्त्येव। खेन मुक्ते पक्षे ठञपि भवति। द्विसमिनः, द्वैसमिकः। त्रिसमीनः, त्रैसमिकः।

Siddhanta Kaumudi

Up

index: 5.1.86 sutra: द्विगोर्वा


समायाः ख इत्येव । तेन परिजय्य - <{SK1757}> इत्यतः प्राङ्निर्वृत्तादिषु पञ्चस्वर्थेषु प्रत्ययाः । द्विसमीनः । द्वैसमिकः ॥

Neelesh Sanskrit Detailed

Up

index: 5.1.86 sutra: द्विगोर्वा


तेन निर्वृत्तम् 5.1.79 इत्यनेन निर्दिष्टस्य 'निवृत्तम्' अस्य अर्थस्य विषये ; तथा च तमधीष्टो भृतो भूतो भावी 5.1.80 इत्यनेन निर्दिष्टानाम् 'अधीष्टः, भृतः, भूत, भावी' - एतेषामर्थानाम् विषये द्विगुसमासस्य उत्तरपदरूपे विद्यमानात् 'समा' (= 'वर्षम्' इत्यर्थः) शब्दात् अनेन सूत्रेण विकल्पेन 'ख' प्रत्ययः भवति ।

द्वयोः अर्थयोः विषये क्रमेण पश्यामः -

  1. तेन निर्वृत्तम् 5.1.79 - द्वाभ्यां समाभ्यां निर्वृत्तम् द्विसमीनम् । अत्र <!प्राग्वतेः सङ्ख्यापूर्वपदानां तदन्तग्रहणमलुकि!> अनेन वार्त्तिकेन तदन्तविधिना औत्सर्गिके ठञ्-प्रत्यये प्राप्ते तं बाधित्वा विकल्पेन 'ख' प्रत्ययः क्रियते । अतः पक्षे ठञ्-प्रत्ययः अपि भवत्येव - द्वाभ्यां समाभ्यां निर्वृत्तम् द्वैसमिकम् ।

  2. तमधीष्टो भृतो भूतो भावी 5.1.80 - अत्र समायाः खः 5.1.85 इत्यनेन पूर्वसूत्रेण (तदन्तविधिना च) नित्यम् ख-प्रत्यये प्राप्ते सः द्विगु-समासस्य विषये विकल्प्यते । पक्षे औत्सर्गिकः ठञ्-प्रत्ययः अपि भवति -

अ) द्वे समे अधीष्टः द्विसमीनः द्वैसमिकः वा अध्यापकः ।

आ) द्वे समे भृतः द्विसमीनः द्वैसमिकः वा सेवकः ।

इ) द्वे समे भूतः द्विसमीनः द्वैसमिकः वा ज्वरः ।

ई) द्वे समे भावी द्विसमीनः द्वैसमिकः वा उत्सवः ।

तथैव त्रिसमीनः / त्रैसमिकः, पञ्चसमीनः / पाञ्चसमिकः - एते शब्दाः अपि सिद्ध्यन्ति ।

Balamanorama

Up

index: 5.1.86 sutra: द्विगोर्वा


द्विगोर्वा - द्विगोर्वा । समायाः ख इत्येवेति । तथाच समान्ताद्विगोर्द्द्वितीयान्तात्खो वा स्यात्, पक्षे ठञिति फलितम् ।अप्सुमनःसमासिकतावर्षाणां बहुत्वं चे॑ति लिङ्गानुशासनसूत्रम् ।हायनोऽस्त्री शरत्समाः॑ इत्यमरः । 'समां समां विजायते' इति सूत्रादेकवचनमप्यस्ति । पञ्चस्विति । 'ते निर्वृत्तं'तमधीष्ठो भृतदो भावी॑ति पञ्चस्वित्यर्थः । एषां यथायोगमन्वयः । द्वैसमिक इति । खाऽभावे प्राग्वतीयष्ठञ् ।