स्तेनाद्यन्नलोपश्च

5-1-125 स्तेनात् यत् नलोपः च प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा तस्य भावः स्त्वतलौ आ च त्वात् कर्मणि

Sampurna sutra

Up

'तस्य भावः, कर्मणि च' (इति) स्तेनात् यत्, नलोपः च

Neelesh Sanskrit Brief

Up

'भावः' तथा 'कर्म' एतयोः अर्थयोः षष्ठीसमर्थात् 'स्तेन' शब्दात् 'यत्' प्रत्ययः भवति, तथा च प्रक्रियायाम् 'स्तेन' शब्दस्य 'न' इत्यस्य लोपः भवति ।

Kashika

Up

स्तेनशब्दात् षष्ठीसमर्थात् भावकर्मणोर्यत् प्रत्ययो भवति, नशब्दस्य लोपश्च भवति। स्तेनस्य भावः कर्म वा स्तेयम्। स्तेनादिति केचिद् योगविभागं कुर्वन्ति। स्तेनात् ष्यञ् भवति। स्तैन्यम्। ततो यन्नलोपश्च। स्तेयम्॥

Siddhanta Kaumudi

Up

नेति संघातग्रहणम् । स्तेन चौर्ये पचाद्यच् । स्तेनस्य भावः कर्म वा स्तेयम् । स्तेनादिति योगं विभज्य स्तैन्यमिति ष्यञन्तमप केचिदिच्छन्ति ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

'भावः' तथा 'कर्म' एतयोः अर्थयोः 'स्तेन'शब्दात् ( = चौरः / thief इत्यर्थः) औत्सर्गिकरूपेण 'त्व' तथा 'तल्' प्रत्यययोः प्राप्तयोः पक्षे यत्-प्रत्ययविधानम् कर्तुम् इदम् सूत्रम् पाठितमस्ति । वर्तमानसूत्रेण 'स्तेनस्य भावः कर्म वा' अस्मिन् अर्थे स्तेन-शब्दात् यत्-प्रत्ययः भवति, प्रक्रियायां च 'न' इत्यस्य लोपः अपि जायते - स्तेनस्य भावः कर्म वा = स्तेन + यत् → स्ते + य [नकारस्य लोपः] → स्तेय । स्तेनस्य भावः कर्म वा स्तेयम् । विशेषः - अस्य सूत्रस्य योगविभागम् कृत्वा 'स्तेनात्' इति भिन्नं सूत्रम् क्रियते, यस्मिन् च पूर्वसूत्रात् 'ष्यञ्' इति प्रत्ययमनुवर्त्यते । अनेन 'स्तेनस्य भावः कर्म वा' अस्मिन् अर्थे ष्यञ्-प्रत्ययः अपि भवति । स्तेनस्य भावः कर्म वा = स्तेन + ष्यञ् → स्तैन्यम् । ज्ञातव्यम् - <<आ च त्वात्>> 5.1.120 इत्यनेन 'स्तेन' शब्दात् 'त्व' प्रत्ययः 'तल्' प्रत्ययः अपि भवतः । स्तेनस्य भावः स्तेनत्वम् स्तेनता वा ।

Balamanorama

Up

<<स्तेनाद्यन्नलोपश्च>> - स्तेनाद्यन्नलोपश्च ।य॑दिति च्छेदः । स्तेनशब्दात्षष्ठन्ताद्भावे कर्मणि चार्थे यत्स्यादित्यर्थः । नेति सङ्घातग्रहणमिति ।नलोपश्चे॑त्यत्र नेत्यकार उच्चारणार्थो न भवति, किंतु नकाराऽकारसङ्गातग्रहणमित्यर्थः । स्तेयमिति । स्तेनशब्दाद्यत्प्रत्यये सति नेति सङ्गातस्य लोप इति भावः । नच नकारमात्रलोपेऽपियस्येति चे॑त्यकारलोपात्स्तेयमिति सिध्यतीति वाच्यम्,अचः परस्मि॑न्नित्यकारलोपस्य स्थानित्त्वेन तमाश्रित्य एकारस्य अयादेशप्रसङ्गात् । नच सङ्गातग्रहणेऽपिअलो ।ञन्त्यस्ये॑त्यकारस्यैव लौपः स्यादिति शङ्क्यं,यस्येति चे॑त्येव अकारस्य लोपसिद्धाविह नलोपविधिवैयथ्र्यात्,नानर्थकेऽलोऽन्त्यविधि॑रिति निषेधाच्च । योगं विभज्येति । स्तेनादिति पृथक्सूत्रम् । ष्यञित्यनुवर्तते । स्तेन शब्दाद्भावे कर्मणि च ष्यञित्यर्थः । समासकृदन्ततद्धितान्ताऽव्ययसर्वनामजातिसङ्ख्यासंज्ञाशब्दभिन्नमर्थवच्छब्दरूपं गुणवचनसंज्ञकं भवतीति आकडारसूत्रभाष्यरीत्या स्तेनशब्दस्य पचाद्यजन्तस्य कृदन्तस्य गुणवचनत्वाऽभावादप्राप्ताविदं वचनम् । अव्युत्पन्नप्रतिपदिकतया गुणवचनत्वेऽपि यत्प्रत्ययेनापवादेन पक्षे समावेशार्थं वचनम् । ततोयन्नवलोपश्चे॑ति योगान्तरम् । स्तेनादित्यनुवृत्तावुक्तोऽर्थः । केचिदिति । भाष्याऽदृष्टवाद्योगविभागोऽयप्रमाणिक इति भावः ।

Padamanjari

Up

'स्तेन चौर्ये' , पचाद्यतु, स्तेनः। नशब्दस्येति। एतेन सङ्घातस्येदं ग्रहणमिति दर्शयति। वर्णग्रहणे तु नकारलोपे कृतेऽकारस्य यस्येति लोपः। तस्य पूर्वविधौ स्थानिवद्भावादयादेशः प्राप्नोति। ननु सह्घातग्रहणेऽपि ठल्लोऽन्त्यस्यऽ इत्यन्त्यस्य प्राप्नोति ? सिद्धोऽन्त्यलोपः'यस्येति च' इति; तत्रारम्भसामर्थ्यात्सर्वस्य भविष्यति,'नानर्थके' लोन्त्यविधिरनभ्यासविकारेषुऽ इति च परिभाषां पठन्ति। स्तेनादिति योगविभागं कुर्वन्तीति। भाग्येऽनुक्तमपि स्तैन्यशब्दस्य प्रयोगबाहुल्यादिदमुक्तम् ॥