गोत्रक्षत्रियाख्येभ्यो बहुलं वुञ्

4-3-99 गोत्रक्षत्रियाख्येभ्यः बहुलं वुञ् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् सः अस्य भक्तिः

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

गोत्राख्येभ्यः क्षत्रियाख्येभ्यश्च प्रातिपदिकेभ्यो बहुलं वुञ् प्रत्ययो भवति सोऽस्यभक्तिरित्येतस्मिन् विषये। अणोऽपवादः। वृद्धाच्छं परत्वाद् बाधते। ग्लुचुकायनिर्भक्तिरस्य ग्लौचुकायनकः। औपगवकः। कापटवकः। क्षत्रियाख्येभ्यः — नाकुलकः। साहदेवकः। साम्बकः। आख्याग्रहणं प्रसिद्धक्षत्रियशब्दपरिग्रहार्थम्, यथाकथंचित् क्षत्रियवृत्तिभ्यो मा भूत्। बहुलग्रहणात् क्वचिदप्रवृत्तिरेव। पाणिनो भक्तिरस्य पाणिनीयः। पौरवीयः॥

Siddhanta Kaumudi

Up

अणोऽपवादः । परत्वाद्वृद्धाच्छं बाधते । ग्लुचुकायनिर्भक्तिरस्य ग्लौचुकायनकः । नाकुलकः । बहुलग्रहणान्नेह । पाणिनो भक्तिरस्य पाणिनीयः ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<गोत्रक्षत्रियाख्येभ्यो बहुलं वुञ्>> - गोत्रक्षत्रिया । गोत्रप्रत्ययान्तेभ्यः क्षत्रियवाचिभ्यश्चोक्तविषये बहुलं वुञ्स्यादित्यर्थः । इह न पारिभाषिकं गोत्रम् । छै बाधते इति ।औपगवक इत्यादी॑विति शेषः । ग्लुचुकायनिरिति ।प्राचामवृद्धा॑दिति फिनि ग्लुचुकायनिशब्दः । नाकुलक इति । क्षत्रियाख्योदाहरणम् ।

Padamanjari

Up

गोत्रक्षत्रियाख्येभ्य इति । आङ्पूर्वात्ख्यातेर्मूलविभुजादित्वात्कः । आख्याग्रहणमिति । आङ्पूर्वस्य ख्यातेग्रहणमित्यर्थः । यथाकथञ्चिदिति । क्षत्रियशब्दसामानाधिकरण्याद्येषां क्षत्रिये वृत्तिः, यथा - शूरः क्षत्रिय इति, तेभ्यो मू भूदित्यर्थः ॥