जनपदिनां जनपदवत् सर्वं जनपदेन समानशब्दानां बहुवचने

4-3-100 जनपदिनां जनपदवत् सर्वं जनपदेन समानशब्दानां बहुवचने प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् सः अस्य भक्तिः

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

जनपदिनो ये बहुवचने जनपदेन समानशब्दाः, तेषां जनपदवत् सर्वं भवति, प्रत्ययः प्रकृतिश्च, सोऽस्य भक्तिरित्येतस्मिन् विषये। <<जनपदतदवध्योश्च>> ४.२.१२४ इत्यत्र प्रकरणे ये प्रत्यया विहिताः, ते जनपदिभ्योऽस्मिन्नर्थेऽतिदिश्यन्ते। जनपदिनो जनपदस्वामिनः क्षत्रियाः। अङ्गा जनपदो भक्तिरस्य आङ्गकः। वाङ्गकः। सौह्मकः। पौण्ड्रकः। तद्वदङ्गाः क्षत्रिया भक्तिरस्य आङ्गकः। वाङ्गकः। सौह्मकः। पौण्ड्रकः। जनपदिनामिति किम्? पञ्चाला ब्राह्मणा भक्तिरस्य पाञ्चालः। सर्वग्रहणं प्रकृत्यतिदेशार्थम्, स च द्व्येकयोः प्रयोजयति। वृद्धिनिमित्तेषु च वुञादिषु विशेषो नास्तीति। मद्रवृज्योः कनि ४.२.१३१ विशेषः। मद्रस्यापत्यम् <<द्व्यञ्मगधकलिङ्गसूरमसादण्>> ४.१.१७०, माद्रः। वृजिशब्दादपि <<वृद्धेत्कोसलाजादाञ्ञ्यङ्>> ४.१.१७१, वार्ज्यः। स भक्तिरस्येति प्रकृतिनिर्ह्रासे कृते मद्रकः। वृजिकः। जनपदेन समानशब्दानामिति किम् ? अनुषण्डो जनपदः, पौरवो राजा, स भक्तिरस्य पौरवीयः। बहुवचनग्रहणं समानशब्दताविषयलक्षणार्थम्। अन्यथा हि यत्रैव समानशब्दता तत्रैवातिदेशः स्याद्, एकवचनद्विवचनयोर्न स्यात्, वाङ्गो वाङ्गौ वा भक्तिरस्येति। बहुवचने तु बहुवचने समानशब्दानामेकवचनद्विवचनयोः सत्यपि शब्दभेदेऽतिदेशो भवति। वाङ्गो वाङ्गौ वा भक्तिरस्य वाङ्गकः॥

Siddhanta Kaumudi

Up

जनपदस्वामिवाचिनां बहुवचने जनपदवाचिनां समानश्रुतीनां जनपदवत्सर्वं स्यात्प्रत्ययः प्रकृतिश्च । जनपदतदवध्योश्च <{SK1348}> इति प्रकरणे ये प्रत्यया उक्तास्तेऽत्रातिदिश्यन्ते । अङ्गाजनपदो भक्तिरस्याङ्गकः । अङ्गाः क्षत्रिया भक्तिरस्याङ्गकः । जनपदिनां किम् । पौरवो राजा भक्तिरस्य पौरवीयः ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<जनपदिनां जनपदवत् सर्वं जनपदेन समानशब्दानां बहुवचने>> - जनपदिनां । बहुवचने परे ये जनपदे समानशब्दाः=जनपदवाचिशब्देन समानः शब्दः=श्रवणं येषां तथाविधाः, तेषां जनपदिनां=जनपदस्वामिवाचिनां जनपदवत्=जनपदे इव सर्वं स्यादित्यर्थः ।जनपदतदवध्योश्चे॑ति प्रकरणे ये प्रत्यया विहितास्ते भवन्ति, प्रकृतयोऽपि तथैव भवन्तीति तु 'सर्व' शब्दाल्लभ्यते । तदाह — जनपदस्वामिवाचिनामित्यादिना । अङ्गा जनपद इति । दृष्टान्तार्थमिदम् । अङ्गनाम्नां राज्ञां निवासो जनपदः-अङ्गाः । 'जनपदे लुप्' इति चातुरर्थिकस्य लुप् । स जनपदो भक्तिरस्येत्यर्थेजनपदतदवध्योश्चे॑ति वुञ्प्रत्यये 'आङ्गकः' इति यथा तथा अङ्गदेशस्वामिनः क्षत्रिया अङ्गा भक्तिरस्येत्यर्थे क्षत्रियवाचकादङ्गशब्दाद्वुञि 'आङ्गका' इति रूपमित्यर्थः । पञ्चाला ब्राआहृणा इति । अभेदोपचारादिह ब्राआहृणेषु पञ्चालशब्दः । तत्रातिदेशा.ञभावादणेव भवति । पौरव इति । पौरवशब्दो न जनपदवृत्तिरिति भावः । बहुवचने किम् । एकवचनद्विवचनयोः सत्यपि शब्दभेदेऽतिदेशो भवतचि । यथा आङ्गो वा आङ्गौ वा भक्तिरस्य आङ्गक इति । प्रकृतिश्चेति किम् । मद्राणां राजा माद्रः ।द्य्वञ्मगधे॑त्यण् । माद्रो भक्तिरस्येत्यर्थे अतिदेशान्माद्रस्य मद्रत्वे सतिमद्रवृज्यो॑रिति कनि 'माद्रक' इति सिध्यति ।

Padamanjari

Up

जनपदिनाम् जनपदिवाचिनां शब्दानाम् जनपदवत् जनपदवाचिनां शब्दानामिव, जनपदेन जनपदवाचिना शब्देन, समानशब्दानाम् समनश्रुतीनाम्, बहुवचने बह्वर्थाभिधाने । वृतेरप्येष एवार्थः । प्रत्ययः प्रकृतिश्चेति । अनेन सर्वशब्दस्यार्थो दर्शितः । जनपदिनो जनपदस्वामिन इति । स्वस्वामिभावसम्बन्धे मत्वर्थीयं दर्शयति । अङ्गा जनपदा इत्यादिना दृष्टान्ते प्रवृत्तिप्रकारमाह । तद्वदित्यादिना तूदाहरणम् । सर्वत्र बहुष्वर्थेषु'द्व्यञ्मगध' इत्यादिना विहितस्याणः'तद्राजस्य बहुषु' इति लुकि कृते समानशब्दादवृद्धादपि बहुवचनेति वुञि विवक्षिते'गोत्रे' लुगचिऽ इति वचनादाङ्गशब्दाद् वुञ् । पञ्चाला ब्राह्मणा इति । अभेदोपवाराद् ब्राह्मणेषु पञ्चालशब्दस्य वृत्तिः, तत्रातिधेशाभावादणेव भवति । सर्वग्रहणमित्यादि । असति सर्वग्रहणे प्राधान्यात्प्रत्ययस्यैवातिदेशः स्यात्, न प्रकृतेः । वतिनिर्देशस्तु यैर्जनपदैर्ये जनपदिनस्तेषां तज्जनपदप्रत्यय एव यथा स्यात्, जनपदान्तरप्रत्ययो मा भूदित्येवमर्थं स्यात् । न त्वेनन प्रकृत्यतिदेशो लभ्यते, तस्मातदर्थं सर्वग्रहणं क्रियते । स च द्व्येकयोः प्रयोजयतीति पाठः । स च प्रकृत्यतिदेशः सर्वग्रहणं द्व्येकयोः प्रयोजयति, न बहुषु; तत्र रूपस्या भिन्नत्वात् । यदाह -'बहुवचने समानशब्दानाम्' इति । द्व्येकयोस्तु जनपदवाचिनो रूपं वृद्धम्, जनपदवाचिनस्त्ववृद्धमिति तत्रैव सर्वग्रहणस्य प्रयोजनमित्यर्थः । अतिदेशः प्रयोजयति, अतिदेशं प्रयोजयतीति वा पाठे न समीचीनमर्थं पश्यामः । वृद्धिनिमितेष्वित्यादि । तत्र ह्यतिदिष्टेऽपि प्रकृतिरूपे पुनर्वृद्ध्या भाव्यमिति नास्ति वेशेषः । मद्रवृज्योः कति विशेष इति । तत्र वृद्ध्यसम्भवात् । प्रकृतिनिर्ह्रासे कृत इति । निर्ह्रासःउअपचयः, अल्पत्वमित्यर्थः । मद्रकः, वृजिक इति । असति तु प्रकृत्यतिदेशे माद्रकको वार्ज्यक इति स्यात् । बहुवचनग्रहणमित्यादि । समानशब्दताया यो विषयस्तस्य लक्षणं प्रदर्शनं तदर्थम् । अन्यथा हीति । यदि बहुवचनग्रहणं न क्रियते । यत्रैवेति । बहुवचने, तत्रैव हि तद्राजस्य लुकि कृते समानशब्दता भवति । एकवचनद्विवचनयोर्न स्यादिति । लुगभावेन समानशब्दताया अभावात् । ननु सर्वग्रहणं प्रकृत्यतिदेशार्थम्, स च द्व्येकयोः प्रयोजयतीत्युक्तम्, तत्कथं द्व्येकयोर्न स्यात् ? तस्मात् सर्वग्रहणाध्यत्र क्वचित्समानशब्दानां सर्वत्रातिदेशः सिद्धः । अस्यैवार्थस्य विश्पष्टप्रतिपत्यर्थम्'बहुवचने' इत्युपलक्षणमुपातम् ॥