4-3-97 महाराजात् ठञ् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् सः अस्य भक्तिः
महाराजशब्दाट् ठञ् प्रत्ययो भवति सोऽस्य भक्तिरित्येतस्मिन् विषये। अणोऽपवादः। महाराजो भक्तिरस्य माहाराजिकः। प्रत्ययान्तरकरणं स्वरार्थम्॥
माहाराजिकः ॥
<<महाराजाट्ठञ्>> - महाराजाट्ठञ् ।सोऽस्य भक्तिरित्यर्थे॑ इति शेषः । माहाराजिक इति । महाराजो भक्तिरस्येति विग्रहः ।