अचित्ताददेशकालाट्ठक्

4-3-96 अचित्तात् अदेशकालात् ठक् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् सः अस्य भक्तिः

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

देशकालव्यतिरिक्तादचित्तवाचिनः प्रातिपदिकाट् ठक् प्रत्ययो भवति सोऽस्य भक्तिरित्येतस्मिन् विषये। अणोऽपवादः। वृद्धाच् छं परत्वाद् बाधते। अपूपो भक्तिरस्य आपूपिकः। शाष्कुलिकः। पायसिकः। अचित्तादिति किम् ? दैवदत्तः। अदेशादिति किम् ? स्रौघ्नः। अकालादिति किम् ? ग्रैष्मः॥

Siddhanta Kaumudi

Up

आपूपा भक्तिरस्य आपूपिकः । पायसिकः । अचित्तात्किम् । दैवदत्तः । अदेशात्किम् । स्रौघ्नः । अकालात्किम् । ग्रैष्मः ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<अचित्ताददेशकालाट्ठक्>> - अचित्ताददेश । देशकालव्यतिरिक्ताऽप्राणिवाचिनः ठक्स्यादुक्तविषये । अपूपाः भक्तिरिति । सामान्याभिप्रायं भक्तिरित्येकवचनं,वेदाः माण॑मितिवत् । पायसिक इति । पयो भक्तिरस्येति विग्रहः ।

Padamanjari

Up

अचितवाचिन इति । स्वरूपग्रहणं तु न भवति, देशकालप्रतिषेधात् । तत्साहचर्यादेशकालयोरपि स्वरूपग्रहणं न भवति ॥