सिन्धुतक्षशिलादिभ्योऽणञौ

4-3-93 सिन्धुतक्षशिलादिभ्यः अणञौ प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् सः अस्य अभिजनः

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

आदिशब्दः प्रत्येकमभिसंबध्यते। सिन्ध्वादिभ्यःप्रातिपदिकेभ्यस्तक्षशिलादिभ्यश्च यथासंख्यमणञौ प्रत्ययौ भवतः सोऽस्याभिजन इत्येतस्मिन् विषये। सैन्धवः। वार्णवः॥ सिन्धु। वर्णु। गन्धार। मधुमत्। कम्बोज। कश्मीर। साल्व। किष्किन्धा। गब्दिका। उरस। दरत्। ये तु कच्छादिषु ४.२.१३३ पठ्यन्ते सिन्धुवर्णुप्रभृतयः, तेभ्यस्तत एवाणि सिद्धे मनुष्यवुञो ४.२.१३४ बाधनार्थं वचनम्। तक्षशिलादिभ्यः खल्वपि — ताक्षशिलः। वात्सोद्धरणः॥ तक्षशिला। वत्सोद्धरण। कौमेदुर। काण्डवारण। ग्रामणी। सरालक। कंस। किन्नर। संकुचित। सिंहकोष्ठ। कर्णकोष्ठ। बर्बर। अवसान॥

Siddhanta Kaumudi

Up

सिन्ध्वादिभ्योऽञ् स्यादुक्तेऽर्थे । सैन्धवः । तक्षशिला नगरी अभिजनोऽस्य ताक्षशिलः ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<सिन्धुतक्षशिलाऽऽदिभ्योऽणञौ>> - सिन्धुतक्ष । सैन्धव इति । सिन्धुर्देशविशेषोऽभिजनोऽस्येति विग्रहः ।

Padamanjari

Up

सिन्धुवर्णुप्रभृतय इति । प्रभृतिशब्देन मधुमत, कम्बोज, साल्व, कश्मीर, गन्धार - इत्येते गृह्यन्ते । किष्किन्धादिभ्यश्चतुर्भ्यः ठवृद्धादपिऽ इति वुञि प्राप्ते वचनम् । तक्षशिलादिष्वपि वृद्धेभ्यश्च्छः प्राप्तः, शेषेभ्यः'प्राग्दीव्यतो' ण्ऽ ॥