शण्डिकादिभ्यो ञ्यः

4-3-92 शण्डिकादिभ्यः ञ्यः प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् सः अस्य अभिजनः

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

शण्डिक इत्येवमादिभ्यः प्रातिपदिकेभ्यो ञ्यः प्रत्ययो भवति सोऽस्याभिजन इत्येतस्मिन् विषये। अणादेरपवादः। शाण्डिक्यः। सार्वसेन्यः॥ शण्डिक। सर्वसेन। सर्वकेश। शक। सट। रक। शङ्ख। बोध। शण्डिकादिः॥

Siddhanta Kaumudi

Up

शण्डिकोऽभिजनोऽस्य शाण्डिक्यः ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<शण्डिकादिभ्यो ञ्यः>> - शाण्डिकादिभ्यो ञ्यः ।सोऽभिजन इत्यर्थे प्रथमान्तेभ्य॑ इति शेषः ।

Padamanjari

Up

अणाअदेरपवाद इति । आदिशब्देन छादेः । तत्र यदि शण्डिकादयः पर्वतशब्दाः, ततः पूर्वेण च्छः प्राप्तः; अथ जनपदशब्दाः, ततो ठवृद्धादपि बहुवचनविषयात्ऽ इति वुञ्, शण्डिकाशब्दात्कोपधादण् प्राप्तः ॥