4-3-91 आयुधजीविभ्यः छः पर्वते प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् सः अस्य अभिजनः
सोऽस्याभिजन इति वर्तते। आयुधजीविभ्य इति तादर्थ्ये चतुर्थी, पर्वत इति प्रकृतिविशेषणम्। पर्वतवाचिनः प्रथमासमर्थादभिजनादस्येति षष्ठ्यर्थे छः प्रत्ययो भवति। आयुधजीविभ्य आयुधजीव्यर्थम् आयुधजीविनोऽभिधातुं प्रत्ययो भवतीत्यर्थः। हृद्गोलः पर्वतोऽभिजन एषामायुधजीविनां हृद्गोलीयाः। अन्धकवर्तीयाः। रोहितगिरीयाः। आयुध जीविभ्य इति किम् ? ऋक्षोदः पर्वतोऽभिजन एषां ब्राह्मणानाम्, आर्क्षोदा ब्राह्मणाः। पर्वत इति किम्? सांकाश्यका आयुधजीविनः॥
पर्वतवाचिनः प्रथमान्तादभिजनशब्दादस्येत्यर्थे छः स्यात् । हृद्गोलः । पर्वतोऽभिजनो येषामायुधजीविनां ते हृद्गोलीयाः । आयुधेति किम् । ऋक्षोदः पर्वतोऽभिजनो येषां ते आर्क्षोदा द्विजाः ॥
<<आयुधजीविभ्यश्छः पर्वते>> - आयुधज्ञीविभ्यः ।पर्वता॑दिति पाठान्तरम् । अभिजनशब्दादिति । अबिजनदेशवाचिन इत्यर्थः ।आयुधजीविनोऽभिधातु॑मिति शेषः । सूत्रेक्रियार्थोपपदस्ये॑ति चतुर्थी । ह्मद्गोल इति । पर्वतविशेषोऽयम् । ऋक्षोद इति । अयमपि पर्वतविशेषः ।
आयुधजीविभ्य इति तादर्थ्ये चतुर्थीत्यादि । यदि तु ठायुधजीविभ्यःऽ इति पञ्चमीस्यात्, पर्वतादिति ल्यब्लोपे पञ्चमी व्याख्येया स्यात्, ततश्चायमर्थः स्यात् आयुधजीविभ्यः पर्वतमुद्दिश्य पर्वतेऽभिधेये छाए भवतीति, तत्र सोऽभिजन इत्यधिकारो बाध्यते ॥