अ साम्प्रतिके

4-3-9 अ साम्प्रतिके प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् मध्यात्

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

अकारः प्रत्ययो भवति मध्यशब्दात् सांप्रतिके जातादौ प्रत्ययार्थे। मस्यापवादः। सांप्रतिकं न्याय्यं युक्तमुचितं सममुच्यते। नातिदीर्घं नातिह्रस्वं मध्यं काष्ठम्। नात्युत्कृष्टो नात्यवकृष्टो मध्यो वैयाकरणः। मध्या स्त्री॥

Siddhanta Kaumudi

Up

मध्यशब्दादकारप्रत्ययः स्यात्सांप्रतिकेऽर्थे । उत्कर्षापकर्षहीनो मध्यो वैयाकरणः । मध्यं दारु । नातिह्रस्वं नातिदीर्घमित्यर्थः ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<अ साम्प्रतिके>> - अ सांप्रतिके । 'अ' इति लुप्तप्रथमाकम् । मध्यादित्यनुवर्तते । तदाह — मध्यशब्दादित्यादि ।संप्रती॑त्यव्ययमुत्कर्षापकर्षहीनत्वात्मकसाम्ये वर्तते, तैत्तिरीयेअनाप्तश्चतूरात्रोऽतिरिक्तः षड्रात्रोऽथवा एष सम्प्रतियज्ञो यत्पञ्चरात्रः॑ इत्यत्र तथा दर्शनात् । पञ्चरात्रो न न्यूनः नाप्यतिरिक्तः, सम इत्यर्थः । सम्प्रतिशब्दात्स्वार्थे विनयादित्वाट्ठकि साम्प्रतिकम् । प्रज्ञादित्वात्स्वार्थ अणि तु साम्प्रतमित्यपि भवति ।एतर्हि सम्प्रती॑ति कोशादिदानीमित्यर्थेऽपि । प्रकृते तु साम्यं विवक्षितम् ।

Padamanjari

Up

साम्प्रतिकं युक्तं न्याय्यमुचितं सममुच्यत इति । कस्यचित्कश्चित्प्रसिद्ध इत्यनेकशब्दोपादानम् । सम्प्रतिशब्द इदानीमित्यत्राअर्थे प्रसिद्धोऽपि न्याय्येऽपि वर्तते । दृश्यते हि - ठनाप्तश्चतूरात्रोऽतिरिक्तः षड्रात्रोऽथ वा एष सम्प्रति यज्ञो यत्पञ्चरात्र इतिऽ, न न्यूनो नातिरिक्तः, सम इत्यर्थः । स च प्रज्ञादौ पठ।ल्ते । तेन साम्प्रतम्, सम्प्रतीति च पर्यायौ ॥