शिशुक्रन्दयमसभद्वन्द्वेन्द्रजननादिभ्यश्छः

4-3-88 शिशुक्रन्दयमसभद्वन्द्वेन्द्रजननादिभ्यः छः प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् तद् अधिकृत्य कृते ग्रन्थे

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

तदित्येव। अधिकृत्य कृते ग्रन्थ इति च। शिशुक्रन्दादिभ्यो द्वितीयासमर्थेभ्यश्छः प्रत्ययो भवत्यधिकृत्य कृते ग्रन्थे। अणोऽपवादः। शिशूनां क्रन्दनं शिशुक्रन्दः। तमधिकृत्य कृतो ग्रन्थः शिशुक्रन्दीयः। यमस्य सभा यमसभम् यमसभीयः। द्वन्द्वात् — अग्निकाश्यपीयः। श्येनकपोतीयः। शब्दार्थसंबन्धीयं प्रकरणम्। वाक्यपदीयम्। इन्द्रजननादिभ्यः — इन्द्र — जननीयम्। प्रद्युम्नागमनीयम्। इन्द्रजननादिराकृतिगणः प्रयोगतोऽनुसर्तव्यः, प्रातिपदिकेषु न पठ्यते॥ द्वन्द्वे देवासुरादिभ्यः प्रतिषेधः॥ दैवासुरम् । राक्षोऽसुरम्। गौणमुख्यम्। इन्द्रजननादेराकृतिगणत्वात् शिशुक्रन्दादयोऽपि तत्रैव द्रष्टव्याः। प्रपञ्चार्थमेषां ग्रहणम्। एवं सति देवासुरादिप्रतिषेधोऽपि न वक्तव्यः, ततश्छप्रत्ययस्यादर्शनात्॥

Siddhanta Kaumudi

Up

शिशूनां क्रन्दनं शिशुक्रन्दः, तमधिकृत्य कृतो ग्रन्थः शिशुक्रन्दीयः । यमस्य सभा यमसभम् । क्लीबत्वं निपातनात् । यमसभीयः । किरातार्जुनीयम् । इन्द्रजननादिराकृतिगणः । इन्द्रजननीयम् । विरुद्धभोजनीयम् ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<शिशुक्रन्दयमसभद्वन्द्वेन्द्रजननादिभ्यश्छः>> - शिशुक्रन्द । शिशुक्रन्द, यमसभ, द्वन्द्व, इन्द्रजननादि एभ्यश्छः स्यादधिकृत्य कृते ग्रन्थे इत्यर्थे । निपातनादिति ।सभा राजे॑ति तु नपुंसकत्वं न भवति, तत्रअमनुष्यशब्दो रूढआ रक्षःपिशाचादीनाहे॑त्युक्तेरिति भावः ।

Padamanjari

Up

इन्द्रजननादिराकृतिगण इति । तेन'विरुद्धभोजनीयमध्यायं व्याख्यास्यामः' इति सिद्धं भवति ॥