गोत्रादङ्कवत्

4-3-80 गोत्रात् अङ्कवत् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् ततः आगतः

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

अपत्याधिकारादन्यत्र लौकिकं गोत्रमपत्यमात्रं गृह्यते। गोत्रप्रत्ययान्तात् प्रातिपदिकादङ्कवत् प्रत्ययविधिर्भवति तत आगत इत्येतस्मिन् विषये। अङ्कग्रहणेन तस्येदमर्थसामान्यं लक्ष्यते। तस्माद् वुञप्यतिदिश्यते नाणेव <<सङ्घाङ्कलक्षणेष्वञ्यञिञामण्>> ४.३.१२७ इति। औपगवानामङ्कः औपगवकः। कापटवकः। नाडायनकः। चारायणकः। एवमौपगवेभ्य आगतम्, औपगवकम्। कापटवकम्। नाडायनकम्। चारायणकम्॥

Siddhanta Kaumudi

Up

बिदेभ्य आगतं बैदम् । गार्गम् । दाक्षम् । औपगवकम् ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<गोत्रादङ्कवत्>> - गोत्रादङ्कवत् । अङ्के ये प्रत्ययास्ते तत आगत इत्यर्थेऽपि भवन्तीत्यर्थः । बिदेभ्य आगतमिति । विग्रहप्रदर्शनम् । अत्रयञञोश्चे॑ति बहुत्वे अञो लुकि 'बिदेभ्य' इति निर्देशः । बैदमिति ।सङ्घाङ्कलक्षणेष्वञ्यञिञाम॑णित्युक्तरञन्तादिहाप्यर्थे अणि विवक्षितेगोत्रेऽलुगची॑त्यञो लुङ्निवृत्तौ बैदशब्दादण् ।द्व्यजृद्ब्राआहृणे॑ति द्व्यज्लक्षणस्य ठकोऽपवादः । गार्गमिति । यञन्तादण् । दाक्षमिति । इञन्तादण् । औपगवकमिति । उपगोरपत्यमौपगवः, तस्मादागतमित्यर्थः ।गोत्रचरणाद्व]ञिति वुञ् । यद्यपि तस्येदमित्यर्थे अयं वुञ्विहितः, तथाप्यञ्यञिञन्तादङ्केऽपि स दृष्ट इति तस्याप्यत्रार्थे अतिदेशो भवति । न हिसङ्घाङ्के॑ति प्रतिपदोक्तस्याऽण एवात्राऽतिदेशः, किं तु अङ्के दृष्टस्य सर्वस्यापि, व्याख्यानादिति भावः ।

Padamanjari

Up

ऋङ्गग्रहणेन तस्येदमित्यर्थसामान्यं लक्ष्यत इति । कथं मुख्ये सम्भवति लक्षणाश्रीयते ? व्याख्यानमत्र शरणम् । अपर आह - अङ्के यद् दृष्ट्ंअ तदतिदिश्यते, न त्वङ्क आहत्य विहितम् ।'गोत्रचरणाद् वुञ्' इत्ययमपि वुञ् तस्येदमिति सामान्ये विहितोऽप्यञादिव्यतिरिक्ते विषयेऽङ्केऽपि दृष्ट इति तस्याप्यतिदेश इति । औपगवकमिति । वुञ उदाहरणम् । अणस्तु - वैदम्, गार्ग्यम्, दाक्षमिति । वतिः सर्वसादृश्यार्थः,'कालेभ्यो भववत्' ,'चरणेभ्यो धर्मवत्' इति यथा ॥