4-3-79 पितुः यत् च प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् ततः आगतः ठञ्
index: 4.3.79 sutra: पितुर्यच्च
पितृशब्दाद् यत् प्रत्ययो भवति, चकाराट् ठञ् च ततागतः इत्येतस्मिन् विषये। पितुरागतं पित्र्यम्, पैतृकम्।
index: 4.3.79 sutra: पितुर्यच्च
चाट्ठञ् । रीङ् ऋतः- <{SK1234}> । यस्य-<{SK311}>इति लोपः । पित्र्यम् । पैतृकम् ॥
index: 4.3.79 sutra: पितुर्यच्च
पितुर्यच्च - पुतुर्यच्च । यति प्रक्रियां दर्शयति — रीञ्ङृत इति ।