4-3-77 विद्यायोनिसम्बन्धेभ्यः वुञ् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् ततः आगतः
विद्यायोनिकृतः संबन्धो येषां ते विद्यायोनिसंबन्धाः। तद्वाचिभ्यः शब्देभ्यो वुञ् प्रत्ययो भवति तत आगत इत्येतस्मिन् विषये। अणोऽपवादः। छं तु परत्वाद् बाधते। विद्यासंबन्धेभ्यस्तावत् — उपाध्यायादागतम् औपाध्यायकम्। शैष्यकम्। आचार्यकम्। योनिसंबन्धेभ्यः — मातामहकः। पैतामहकः। मातुलकः॥
औपाध्यायकः । पैतामहकः ॥
औपाध्यायकः। पैतामहकः॥
<<विद्यायोनिसंबन्धेभ्यो वुञ्>> - विद्यायोनि । 'तत आगत' इत्येव । औपाध्यायकः, पैतामहक इति । उपाध्यायात्पितामहाच्च आगत इत्यर्थः ।
विद्यायोनिकृत इति । बहुव्रीहौ गतार्थत्वात्कृतशब्दस्याप्रयोगः ॥