4-3-76 शुण्डिकादिभ्यः अण् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् ततः आगतः
शुण्डिक इत्येवमादिभ्यः प्रातिपदिकेभ्योऽण् प्रत्ययो भवति तत आगत इत्येतस्मिन् विषये। आयस्थानठकोऽपवादः। शुण्डिकादागतः शौण्डिकः। कार्कणः। अण्ग्रहणं बाधकबाधनार्थम्। औदपानः॥ शुण्डिक। कृकण। स्थण्डिल। उदपान। उपल। तीर्थ। भूमि। तृण। पर्ण। शुण्डिकादिः॥
आयस्थानठक्छादीनां चापवादः । शुण्डिकादागतः शौण्डिकः । कार्कणः । तैर्थः ॥
<<शुण्डिकादिभ्योऽण्>> - शुण्डिकादिभ्योऽण् । 'तत आगत' इत्येव । शुण्डिकमायस्थानविशेषः । पूर्वसूत्रविहितठगपवादः । कार्कण इति । 'कृकणादागत' इति शेषः ।कृकणपर्णाद्भारद्वाजे॑ इति छस्यापवादः । तैर्थ इति । धूमादिवुञोऽपवादः । औदपान इति । अत्र उत्सादित्वादञ्प्राप्तो न भवति, पुनरण्ग्रहणात् । अन्यथा यथाप्राप्तविधाने आयस्थानठकं बाधित्वा अञेव स्यात् ।
आयस्थानठकोऽपवाद इति । उपलक्षणमेतत् । कृकणशब्दात्'कृकणपर्णाद्भारद्वाजे' इति च्छस्याप्यपवादः । तीर्थशब्दाद् धूमादिलक्षस्य वुञोऽप्यपवादः । उदपानशब्दादुत्साद्यञोऽप्यपवादः । अथाण्ग्रहणं किमर्थं न शिण्डिकादिभ्यो यथाविहितमेवोच्येत, वचनसामर्ध्याद्धि, यो विहितो न च प्राप्नोति अन्येन बाधितत्वात्, स एवाण् भविष्यति ? अत आह - अण्ग्रहणमिति । उदपानशब्द इह पठ।ल्ते, स चोत्सादिः तत्रासत्यण्ग्रहणे आयस्थानठकंबाधित्वा ठुत्सादिभ्योऽञ्ऽ इत्यञेव स्यात् । अण्ग्रहणात्वेणेव भवति ॥