4-3-75 ठक् आयस्थानेभ्यः प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् ततः आगतः
आय इति स्वामिग्राह्यो भाग उच्यते, स यस्मिन्नुत्पद्यते तदायस्थानम् । आयस्थानवाचिभ्यः प्रातिपदिकेभ्यष्ठक् प्रत्ययो भवति तत आगत इत्येतस्मिन् विषये। अणोऽपवादः। छं तु परत्वाद् बाधते। शुल्कशालाया आगतः शौल्कशालिकः। आकरिकम् बहुवचनं स्वरूपविधिनिरासार्थम्॥
शुल्काशालाया आगतः शौल्कशालिकः ॥
शुल्कशालाया आगतः शौल्कशालिकः॥
<<ठगायस्थानेभ्यः>> - ठगायस्थानेभ्यः । 'तत आगत इत्यर्थे' इति शेषः । हट्टादिषु स्वामिग्राह्रो भागः-आयः । स यस्मिन्गृह्रते तदायस्थानम्, तद्वाचिभ्य इत्यर्थः ।
आय इति स्वामिग्राह्यए भाग इति । एत्येनं स्वामी, स्वामिनां वाऽयमेतीति कृत्वा ॥