अणृगयनादिभ्यः

4-3-73 अण् ऋगयनादिभ्यः प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् तत्र भवः व्याख्यातव्यनाम्नः

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

ऋगयनादिभ्यः प्रातिपदिकेभ्यो भवव्याख्यानयोरर्थयोरण् प्रत्ययो भवति। ठञादेरपवादः। आर्गयनः। पादव्याख्यानः। अण्ग्रहणं बाधकबाधनार्थम्। वास्तुविद्यः॥ ऋगयन। पदव्याख्यान। छन्दोमान। छन्दोभाषा। छन्दोविचिति। न्याय। पुनरुक्त। निरुक्त। व्याकरण। निगम। वास्तुविद्या। अङ्गविद्या। क्षत्रविद्या। उत्पात। उत्पाद। संवत्सर। मुहूर्त। निमित्त। उपनिषत्। शिक्षा। ऋगयनादिः॥

Siddhanta Kaumudi

Up

ठञादेरपवादः । आर्गयनः । औपनिषदः । वैयाकरणः ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<अणृगयनादिभ्यः>> - अणृगयनादिभ्यः ।तस्य व्याख्याने तत्र भवे चे॑ति शेषः । आर्गयनैति । ऋगयनम् — ऋक्संहिता, तस्य व्याख्यानस्तत्र भवो वेत्यर्थः ।बह्वचोऽन्तोदात्ता॑दिति ठञि प्राप्ते अण् । औपनिषद इति । उपनिषदो व्याख्यानस्तत्र भवो वेत्यर्थः । एवं वैयाकरणः ।न य्वाभ्या॑मित्यैच् । अण्ग्रहणं तु छबाधनार्थम्, अन्यथा अणा मुक्ते छो दुर्वारः स्यादित्याहुः ।

Padamanjari

Up

ठञादेरिति । आदिशब्देन ठकः च्छस्य च ग्रहणम् । तत्र विद्यान्यायशिक्षाशब्देभ्यो द्व्यज्लक्षणस्य ठकोऽपवादः, व्याकरणशब्दाद् वृद्धाच्छस्य, शेषा बह्वचोऽन्तोदाताः, तेष्वञः । अथाण्ग्रहणं किमर्थम्, न ऋगयनादिभ्यो यथाविहितमेवोच्येत, वचनप्रामाण्याद्यो विहितो न च प्राप्नोति अन्येन बाधितत्वात्, स एवाण् भविष्यति ? अत आह -अण्ग्रहणमिति । असत्यण्ग्रहणे यद् वृद्धमन्तोदातं बह्वच, यथा - बास्तुविद्येति, तस्माद् वृद्धाच्छे ठञा बाधिते पुनर्वचनाच्छ एव स्याद्, अण्ग्रहणात्वणेव भवति । ऋगयनमिति ।'पूर्वपदात्संज्ञायामगः' इति णत्वं न भवति, ठगःऽ इति प्रतिषेधात् । अयनशब्दश्च भावसाधनोऽभेदोपचाराद् ग्रन्थे वर्तते, ठनो भाव कर्मवचनेऽ इत्यन्तोदातः । पदव्याख्यानशब्दः'मन्क्तिन्व्याख्यान' इत्यन्तोदातः । च्छन्दोमानशब्द ऋगयनशब्देन व्याख्यातः । च्छन्दो भावेति कृत्स्वरेणान्तोदातः । छन्दोविचितिशब्दो मन्क्तिन्नित्यन्तोदातः । पुनरुक्तशब्दस्थाथादिस्वरेण । निरुक्तशब्दः'संज्ञायामनाचितादीनाम्' इति । निगमशब्दो गोचरादिसूत्रे घान्तो निपातितोऽन्तोदातः । वास्तुविद्या, क्षत्रविद्या, अङ्गविद्येति समासस्वरेण । उत्पातोत्पादशब्दौ थाथादिस्वरेण । अशेः सरन्, वसेः सम्पूर्वाच्चिदिति संवत्सरशब्दोऽन्तोदातः । मुहूर्तनिमितशब्दौ प्रातिपदिकस्वरेण । उपनिपूर्वात्सदेः क्विप्, उपनिषच्छब्दः कृत्स्वरेणान्तोदातः ॥