द्व्यजृद्ब्राह्मणर्क्प्रथमाध्वरपुरश्चरणनामाख्याताट्ठक्

4-3-72 द्व्यजृद्ब्राह्मणर्क्प्रथमाध्वरपुरश्चरणनामाख्यातात् ठक् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् तत्र भवः व्याख्यातव्यनाम्नः

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

द्व्यजादिभ्यः प्रातिपदिकेभ्यो व्याख्यातव्यनामभ्यो भवव्याख्यानयोरर्थयोष्ठक् प्रत्ययो भवति। अणादेरपवादः। द्व्यचस्तावत् — ऐष्टिकः। पाशुकः। ऋकारान्तात् — चातुर्होतृकः। पाञ्चहोतृकः। ब्राह्मण — ब्राह्मणिकः। ऋक् — आर्चिकः। प्रथमः — प्राथमिकः। अध्वर — आध्वरिकः। पुरश्चरण — पौरश्चरणिकः। नामाख्यातग्रहणं संघातविगृहीतार्थम्। नामिकः। आख्यातिकः। नामाख्यातिकः॥

Siddhanta Kaumudi

Up

द्व्यच् । ऐष्टिकः । पाशुकः । ऋत् । चातुर्होतृकः । ब्राह्मणिकः । आर्चिकः । इत्यादि ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<द्व्यजृद्ब्राह्मणर्क्प्रथमाध्वरपुरश्चरण- नामाख्याताट्ठक्>> - द्व्यजृद्ब्राआहृण । द्व्यच्, ऋत्, ब्राआहृण, ऋक्, प्रथम, अध्वर, पुरश्चरण, नामन्स, आख्यात एभ्यष्ठक्स्यात्तस्य व्याख्याने, तत्र भवे च । शैषिक इति । शेषस्य व्याख्यानस्तत्र भवो वेत्यर्थः । पाशुक इति.पशुयागप्रतिपादकग्रन्थः । पशुः, तस्य व्याख्यानस्तत्र भवो वेत्यर्थः । उकः परत्वाट्ठस्य कः । ऋत इति । उदाह्यियत इत्यर्थः । चातुर्होतृक इति । 'चित्तिः रुआउक्' इत्यादयो मन्त्राश्चतुर्होतारस्तैत्तिरीये प्रसिद्धाः । तेषां व्याख्यानस्तत्र भवो वेत्यर्थः । ब्राआहृणिकः, आर्चिक इति । ब्राआहृणानि मन्त्रव्यतिरिक्तवेदभागाः, तेषामृचां वा व्याख्यानः, तत्र भवो वेत्यर्थः । ब्राआहृणिकः, आर्चिक इति । ब्राआहृणानि मन्त्रव्यतिरिक्तवेदभागाः, तेषामृचां वा व्याख्यानः, तत्र भवो वेत्यर्थः । इत्यादीति । प्राथमिकः, आध्वरिकः, पौरश्चरणिकः, नामिकः, आख्यातिकः ।

Padamanjari

Up

अणादेरपवाद इति । आदिशब्देन ठञः । तत्र ऋक्च्छब्धे द्व्यक्षु चाणोऽपवादः, पुरश्चरणशब्दोऽपि ल्युडन्तः कृदुतरपदप्रकृतिस्वरेण मध्योदातः । असिप्रत्ययो हि सप्तम्यन्तादुत्पद्यत इति पुरः शब्दः कारकम्,'पुरो' व्ययम्ऽ इति वा गतिः । तेन तस्मादप्यण एवापवादः । ब्राह्मणादिष्वन्तोदातेषु ठञोऽपवादः, ऋकारान्तेष्वप्यणोऽपवादः । ये तु तत्र बह्वचोऽन्तोदातास्तेषु परत्वादयं ठञं बाधते । नामाख्यातग्रहणं सङ्घातविगृहीतार्थमिति । आख्यातार्थं विगृहीतग्रहणम्, नामशब्दातु द्व्यच्त्वादेव सिद्धम् ॥