4-3-71 छन्दसः यदणौ प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् तत्र भवः व्याख्यातव्यनाम्नः
छन्दःशब्दाद् भवव्याख्यानयोरर्थयोर्यदणौ प्रत्ययौ भवतः। द्व्यच इति ठकि प्राप्ते वचनम्। छ॑न्द॒स्यः॑ (तै०सं० १.६.११.४)। छान्दसः (कौ०गृ० १४१.३४)॥
छन्दस्यः । छान्दसः ॥
<<छन्दसो यदणौ>> - छान्दसो यदणौ ।तस्य व्याख्याने, तत्राभवे चे॑ति शेषः । छन्दस्य छान्दस इति । छन्दसां व्याख्यानः, तत्र भवो वेत्यर्थः । द्व्यज्लक्षणस्य वक्ष्यमाणस्य ठकोऽपवादः ।
अत्र भवव्याख्यानौ द्वावर्थौ, यदणौ प्रत्ययावपि द्वावेव, तथापि यथासंख्यं न भवति;'तस्य व्याख्याने' इति यदणौ भवतः,'तत्र भवः' इति चेत्येवं समुच्चयात् । द्व्यचेति ठकि प्राप्त इति । उतरसूत्रे द्व्यज्ग्रहणेन ठकि प्राप्त इत्यर्थः ॥