4-3-70 पौरोडाशपुरोडाशात् ठन् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् तत्र भवः व्याख्यातव्यनाम्नः
पौरोडाशशब्दात् पुरोडाशशब्दात् च भवव्याख्यानयोरर्थयोः ष्ठन् प्रत्ययो भवति। पुरोडाशाः पिष्टपिण्डाः, तेषां संस्कारको मन्त्रः पौरोडाशः, तस्य व्याख्यानस्तत्र भवो वा पौरोडाशिकः। पौरोडाशिकी। पुरोडाशसहचरितो ग्रन्थः पुरोडाशः, तस्य व्याख्यानस्तत्र भवो वा पुरोडाशिकः। पुरोडाशिकी। षकारो ङीषर्थः॥
पुरोडाशसहचरितो मन्त्रः पुरोडाशः स एव पौरोडाशः । ततष्ठन् । पौरोडाशिकः ॥
<<पौरोडाशपुरोडाशात् ष्ठन्>> - पौरोडाश । 'उक्तविषये' इति शेषः । पुरोडाशेति । पुरोडाशशब्दसहितो मन्त्रो लक्षमया पुरोडाश इत्युच्यत इत्यर्थः । स एव पौरोडाश इति । प्रज्ञादित्वात्स्वार्थेऽणिति भावः । पौरोडाशिक इति । पौरोडाशात्ष्ठनि रूपम् । पुरोडाशिक इति । पुरोजाशशब्दात्ष्ठनि रूपम् । षित्त्वान्ङीष् । पौरोडाशिकी — पुरोडाशिकी ।
पुरोडाशाः पिष्टपिण्डा इति ।'दाशृ दाने' कर्मणि घञ्, पुरो दाश्यन्ते दीयन्त इति पुरोडाशाः, पृषोदरादित्वात्समासः, दकारस्य च डकारः, एतेनैतदाह - आकृतिवचनः पुरोडाशशब्दः, न यूपाहवनीयादिवददृष्टनिमित इति । तेषां संस्कारको मन्त्र इति ।'मखस्य शिरो' सिऽ इत्येवमादिः । पुरोडाशसहचरितो मन्त्रः पुरोडाश इति । मन्त्र एव हि व्याख्यातव्यो न पुरोडाशः ॥