अध्यायेष्वेवर्षेः

4-3-69 अध्यायेषु एव ऋषेः प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् तत्र भवः व्याख्यातव्यनाम्नः

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

ऋषिशब्दाः प्रवरनामधेयानि, तेभ्य ऋषिशब्देभ्यो भवव्याख्यानयोरर्थयोष्ठञ् प्रत्ययो भवति। अणोऽपवादः। अध्यायेष्वेव प्रत्ययार्थविशेषणेषु। व्याख्यातव्यनाम्न इत्यनुवर्तते, तत्साहचर्यादृषिशब्दैर्ग्रन्थ उच्यते। वसिष्ठस्य व्याख्यानस्तत्र भवो वा वासिष्ठिकोऽध्यायः। वैश्वामित्रिकः। अध्यायेष्विति किम् ? वासिष्ठी ऋक्॥

Siddhanta Kaumudi

Up

ऋषिशब्देभ्यो लक्षणया व्याख्येयग्रन्थवृत्तिभ्यो भवे व्याख्याने चाध्याये ठञ् स्यात् । वसिष्ठेन दृष्टो मन्त्रो वसिष्ठस्तस्य व्याख्यानस्तत्र भवो वा । वासिष्ठिकोऽध्यायः । अध्यायेषु किम् । वासिष्ठी ऋक् ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<अध्यायेष्वेवर्षेः>> - अध्यायेष्वेवर्षेः । मन्त्रो वसिष्ठ इति । लक्षणयेति भावः । वासिष्ठिकोऽध्याय इति । कश्चिद्ग्रन्थविशेषोऽयम् । वासिष्ठी ऋगिति । ऋचोऽध्यायसमाख्याऽभावान्न ठञिति भावः ।

Padamanjari

Up

अषिशब्दाः प्रवरनामधेयानीति । होत्राध्वर्युणा च प्रव्रियन्त इति प्रवराः उ भृग्वादयः, तद्यथा भार्गवच्यावनाप्रवानौर्वजामदग्नेति होता, जमदग्निवदुर्ववदप्रवानवच्च्यवनवद्भृगुवदित्यध्वर्युः । एतेन यद्यपि मन्त्रदर्शिष्वृपिशब्दः प्रसिद्धः, तथापि प्रवराद्यायपठितानामे ग्रहणमिति दर्शयति । वसिष्ठस्य व्याख्यान इति । वसिष्ठेन दृष्टो मन्त्र उपचाराद् वसिष्ठ इत्युक्तः । वासिष्ठी ऋगिति भवार्थेऽण्, एवकारः सर्ववाक्यानां सावधारणत्वज्ञापनार्थः ॥