ग्रामजनपदैकदेशादञ्ठञौ

4-3-7 ग्रामजनपदैकदेशात् अञ्ठञौ प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् अर्धात् दिक्पूर्वपदात् ठञ् च

Kashika

Up

index: 4.3.7 sutra: ग्रामजनपदैकदेशादञ्ठञौ


दिक्पूर्वपदातित्येव। ग्रामएकदेशवाचिनो जनपदएकदेशवाचिनश्च प्रातिपदिकाद् दिक्पूर्वपदादर्धान्तादञ्ठञौ प्रत्ययौ भवतः शैषिकौ। यतोऽपवदौ। इमे खल्वस्माकं ग्रामस्य जनपदस्य वा पौर्वार्धः, पौर्वार्धिकाः। दाक्षिणार्धाः, दाक्षिणार्धिकाः।

Siddhanta Kaumudi

Up

index: 4.3.7 sutra: ग्रामजनपदैकदेशादञ्ठञौ


ग्रामैकदेशवाचिनो जनपदैकदेशवाचिनश्च दिक्पूर्वपदादर्धान्तादञ्ठञौ स्तः । इमेऽस्माकं ग्रामस्य जनपदस्य वा पौर्वार्धाः । पौर्वार्धिकाः । ग्रामस्य पूर्वास्मिन्नर्धे भवा इति तद्धितार्थे समासः । ठञ् ग्रहणं स्पष्टार्थम् । अञ्चेत्युक्ते यतोऽप्यनुकर्षः संभाव्येत ॥

Balamanorama

Up

index: 4.3.7 sutra: ग्रामजनपदैकदेशादञ्ठञौ


ग्रामजनपदैकदेशादञ्ठञौ - ग्रामजनपद । ननु अञ् चेत्येतावतैव चकाराट्ठञोऽनुकर्षसिद्धेः ठञ्ग्रहणं व्यर्थमित्यत आह — ठञ्ग्रहणमिति । ननु अञ् चेत्युक्तेऽपि चकाराट्ठञोऽनुकर्षः स्पष्ट एवेत्यत आह — अञ्चेत्युक्त इत्यादि ।

Padamanjari

Up

index: 4.3.7 sutra: ग्रामजनपदैकदेशादञ्ठञौ


पौर्वार्द्धा इति । ग्रामस्य पूर्वस्मिन्नर्द्धे भव इति तद्धितार्थे समासः, ततः प्रत्ययः । यद्यप्यर्द्धशब्दो ग्राममपेक्षते, तथाप्यस्य नित्यसापेक्षत्वात्प्रधानत्वाच्च वृत्तिद्वयमप्यविरुद्धम् - समासवृत्तिः, तद्धितवृत्तिश्च । ठञ्ग्रहणं किमर्थम्, नाञ्चेत्येवोच्येत ? न चैवमुच्यमाने यतोऽपि समुच्चय प्रसङ्गः; पूर्वसूत्रे चानुकृष्टत्वात् । तस्माद्विस्पष्टार्थं ठञ्ग्रहणम् ॥