4-3-6 दिक्पूर्वपदात् ठञ् च प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् अर्धात् यत्
index: 4.3.6 sutra: दिक्पूर्वपदाट्ठञ् च
दिक्पूर्वपदादर्धान्तात् प्रातिपदिकात् ठञ् प्रत्ययो भवति, चकाराद् यत् च शैषिकः। अणोऽपवादः। पौर्वार्धिकम्। पूर्वार्ध्यम्। दाक्षिणार्धिकम्, दक्षिणार्ध्यम्। पदग्रहणं स्वरूपविधिनिवारणार्थम्।
index: 4.3.6 sutra: दिक्पूर्वपदाट्ठञ् च
चाद्यत् । पौर्वार्धिकम् । पूर्वार्ध्यम् ॥
index: 4.3.6 sutra: दिक्पूर्वपदाट्ठञ् च
दिक्पूर्वपदाट्ठञ् च - दिक्पूर्वपदायट्ठञ् च । अर्धादित्येव । परावरपूर्वार्धशब्दात्पूर्वसूत्रेण यदेव, विशिष्य विहितत्वात् ।
index: 4.3.6 sutra: दिक्पूर्वपदाट्ठञ् च
अणोऽपवाद इति । सौत्रीं प्राप्तिमभिप्रेत्यैतदुक्तम्,'सपूर्वपदाट्ठञ् वक्तव्यः' इत्युक्तत्वात् । पदग्रहणमित्यादि ।'दिक्पूर्वात्' इत्युच्यमाने स्वरूपविधिः स्यात्, ततश्च दिगर्धे जात इत्यत्रेव स्यात् । पदग्रहणे तु सति - पद्यतेऽनेनेति पदम्, दिशः पदं पूर्वमस्मादिति निपातनात्समासः ॥