क्रतुयज्ञेभ्यश्च

4-3-68 क्रतुयज्ञेभ्यः च प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् तत्र भवः व्याख्यातव्यनाम्नः

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

क्रतुभ्यो यज्ञेभ्यश्च व्याख्यातव्यनामभ्यः प्रातिपदिकेभ्यो भवव्याख्यानयोरर्थयोष्ठञ् प्रत्ययो भवति। अणोऽपवादः। क्रतुभ्यस्तावत् — अग्निष्टोमस्य व्याख्यानस्तत्र भवः, आग्निष्टोमिकः। वाजपेयिकः। राजसूयिकः। यज्ञेभ्यः — पाकयज्ञिकः। नावयज्ञिकः। अनन्तोदात्तार्थ आरम्भः। क्रतुभ्य इत्येव सिद्धे यज्ञग्रहणमसोमयागेभ्योऽपि यथा स्यात्। पाञ्चौदनिकः। दाशौदनिकः। बहुवचनं स्वरूपविधिनिरासार्थम्॥

Siddhanta Kaumudi

Up

सोमसाध्येषु यागेष्वेतौ प्रसिद्धौ । तत्रान्यतरोपादानेन सिद्धे उभयोरुपादानसामर्थ्यादसोमका अपीह गृह्यन्ते । अग्निष्टोमस्य व्याख्यानस्तत्र भवो वा आग्निष्टोमिकः । वाजपेयिकः । पाकयज्ञिकः । नावयज्ञिकः । बहुवचनं स्वरूपविधिनिरासार्थम् । अन्तोदात्तार्थ आरम्भः ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<क्रतुयज्ञेभ्यश्च>> - क्रतुयज्ञेभ्यश्च । सोमेति । सोमलताद्रव्यकयोगेषु क्रतुशब्दो यज्ञशब्दश्च प्रसिद्ध इत्यर्थः । तह्र्रन्तरग्रहणं व्यर्थं, बहुवचनेन स्वरूपग्रहणनिवृत्तेरित्यत आह — तत्रेति । गृह्रन्त इति । ततश्च इह क्रतुशब्देन सोमयागाः, यज्ञशब्देन तदितरयागा विवक्षिता इति भावः । एवंच सोमयागविशेषवाचिभ्यस्तदितरयागविशेषवाचिभ्यश्च उक्तविषये ठछञित्यर्थः । पाकयाज्ञिक इति । औपासनाग्निसाध्याः पार्वणस्थालीपाकादयः — पाकयज्ञाः । तेषां व्याख्यानो ग्रन्थः, तेषु भव इति वार्थः । नावयज्ञिक इति । नूतनद्रव्यक आग्रयणाख्यो यज्ञो नवयज्ञः । ननु पूर्वसूत्रेम सिद्धे किमर्थमिदमित्यत आह — अन्तोदात्तार्थ इति । वाचपेयशब्दो मध्योदात्तस्तैत्तिरीयादौ प्रसिद्धः । यद्यपि अग्निष्टोमशब्दोऽन्तोदात्त एव तैत्तिरीये दृष्टः । नवयज्ञशब्दोऽपि षष्ठीसमासः समासस्वरेणान्तोदात्त एव, तथापि अन्यार्थमिदमन्तोदात्तेष्वपि परत्वात् प्रवर्तत इति न दोषः ।

Padamanjari

Up

अग्निष्टोमाद्यर्थेषु मन्त्रब्रह्मणकल्पेषु वर्तमाना अग्निष्टोमादिशब्दा इहोदाहरणम् । अनन्तोदातार्थ आरम्भ इति । तत्र राजसूय - वाजपेयशब्दौ कृदुतरपदप्रकृतिस्वरेण मध्योदातौ, राजा सूयते, राज्ञा वेह सूयते, वयप्; तत एव निपातनात्समासः, षष्ठीसमासो वा । पीयतेऽस्मिन्निति पेयः'कृत्यल्युटो बहुलम्' इत्यधिकरणे यत्; वाजो यवागूभेदः, तस्य पेयः पायो वाजपेय इति । स्तुतिःउस्तोमः, अग्नेस्तोमोऽस्मिन्निति बहुव्रीहिः,'परादिश्च परान्तश्च' इत्यन्तोदातः । नवैर्व्रीहिभिर्यजनं नवयज्ञःउ आग्रयणम्,'कर्तृकरणे कृता बहुलम्' इति समासः,'कृदुतरपदप्रकृतिभावेन नङ् एव स्वरो' वतिष्ठतेऽ इत्यन्तोदातः । अल्प पर्यायः पाकशब्दः, पाकश्चासौ यज्ञश्च पाकयज्ञः, समासस्वरेणान्तोदातः । सत्यन्यार्थ एतस्यारम्भे, अन्तोदातादपि यज्ञाभिधायिनः परत्वादनेनैव ठञ्प्रत्ययो युक्त इत्यन्तोदातानामुपन्यासः । क्रतुभ्य इत्येव सिद्ध इति । क्रतुयज्ञयोः पर्यायत्वादिति भावः । असोमयागेभ्योऽपीति । अन्यथा क्रतुशब्दस्य सोमयागे रूढत्वादन्यत्र न स्यात्, यज्ञग्रहणातु तेभ्योऽपि भवति । एवं केवलयज्ञग्रहणेऽपि स एव दोषो यः केवलकतुग्रहणे, तस्माद् गौणमुख्यपरिग्रहार्थमुभयोरुपादानम् ॥