बह्वचोऽन्तोदात्ताट्ठञ्

4-3-67 बह्वचः अन्तोदात्तात् ठञ् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् तत्र भवः व्याख्यातव्यनाम्नः

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

बह्वचो व्याख्यातव्यनाम्नः प्रातिपदिकादन्तोदात्ताद् भवव्याख्यानयोष्ठञ् प्रत्ययो भवति। अणोऽपवादः। षात्वणत्विकम्। नातानतिकम्। समासस्वरेणान्तोदात्ताः प्रकृतयः। बह्वच इति किम् ? द्व्यचष्ठकं ४.३.७२ वक्ष्यति। एकाच् प्रत्युदाह्रियते। सौपम्। तैङम्। कार्तम्। अन्तोदात्तादिति किम्? संहितायाः सांहितम्। संहिताशब्दो हि गतिस्वरेणाद्युदात्तः॥

Siddhanta Kaumudi

Up

षत्वणत्वयोर्विधायकं शास्त्रं षत्वणत्वम् । तस्य व्याख्यानस्तत्र भवो वा षात्वणत्विकः ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<बह्वचोऽन्तोदात्ताट्ठञ्>> - बह्वचोऽन्तोदात्ताट्ठञ् । अन्तोदात्ताद्बह्वच उक्तविषये ठञ्स्यात् । अणोऽपवादः ।

Padamanjari

Up

अमोऽपवाद इति । वृद्धाच्छ्ंअ तु परत्वाद्वाधते । सामस्तं नाम शास्त्रं तस्य व्याख्यानं सामस्तिकम् । षत्वादिविधायकं शास्त्रं षत्वादिशब्देनोच्यते । नतः उ अनुदातः, अनतः उ उदातः । अन्तोदाताः प्रकृतय इति । उदाहृतयोर्द्वित्वेऽप्येवञ्जातीयापरप्रकृत्यपेक्षं बहुवचनम्, ताश्च कुत्वरुत्वादयः । गतिस्वरेणेति ।'गतिरनन्तरः' इत्यनेन । उदात इति वर्णग्रहणम्, तेन सिद्धस्तदन्तविधिः, यथा'वरादनुदताद्' इत्यत्र । तस्मादन्तग्रहणं विस्पष्टार्थम् ॥