4-3-64 अशब्दे यत्खौ अन्यतरस्याम् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् तत्र भवः वर्गान्तात् च
वर्गान्तादित्येव। शब्दादन्यस्मिन् प्रत्ययार्थे वर्गान्तात् प्रातिपदिकादन्यतरस्यां यत्खौ प्रत्ययौ भवतः तत्र भव इत्येतस्मिन् विषये। छे प्राप्ते वचनं पक्षे सोऽपि भवति। वासुदेववर्ग्यः, वासुदेववर्गीणः, वासुदेववर्गीयः। युधिष्ठिरवर्ग्यः, युधिष्ठिरवर्गीणः, युधिष्ठिरवर्गीयः। अशब्द इति किम्? कवर्गीयो वर्णः॥
पक्षे पूर्वेण छः । मद्वर्ग्यः । मद्वर्गीणः । मद्वर्गीयः । अशब्दे किम् । कवर्गीयो वर्णः ॥
<<अशब्दे यत्खावन्यतरस्याम्>> - अशब्दे । 'वर्गान्ताच्छः' इति शेषः । मद्वर्ग्यः मद्वर्गीण इति । मत्पक्षे भव इत्यर्थः ।
वासुदेववर्गीय इति ।'वृद्धाच्छः' इत्यस्य परत्वाद्यत्खौ बाधकाविति वृद्धादप्यनेन च्छ एषितव्यः ॥