4-3-61 ग्रामात् पर्यनुपूर्वात् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् तत्र भवः अव्ययीभावात् च ठञ्
अव्ययीभावादित्येव। ग्रामशब्दान्तादव्ययीभावात् परि अनु इत्येवंपूर्वाट् ठञ् प्रत्ययो भवति तत्र भव इत्येतस्मिन् विषये। अणोऽपवादः। पारिग्रामिकः। आनुग्रामिकः॥
ठञ् स्यात् । अव्ययीभावादित्येव । पारिग्रामिकः । आनुग्रामिकः ॥
<<ग्रामात् पर्यनुपूर्वात्>> - ग्रामात्पर्यनुपूर्वात् । ठञ् स्यादिति ।अन्तःपूर्वपदा॑दित्यतस्तदनुवृत्तेरिति भावः ।