अन्तःपूर्वपदाट्ठञ्

4-3-60 अन्तःपूर्वपदात् ठञ् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् तत्र भवः अव्ययीभावात् च

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

अव्ययीभावादित्येव। अन्तःशब्दो विभक्त्यर्थे समस्यते। तत्पूर्वपदादव्ययीभावाट् ठञ् प्रत्ययो भवति तत्र भव इत्येतस्मिन् विषये। अणोऽपवादः। आन्तर्वेश्मिकम्। आन्तर्गेहिकम्॥ समानशब्दाट् ठञ् वक्तव्यः॥ समाने भवं सामानिकम्॥ तदादेश्च॥ सामानग्रामिकम्। सामानदेशिकम्॥ अध्यात्मादिभ्यश्च॥ आध्यात्मिकम्। आधिदैविकम्। आधिभौतिकम्। अध्यात्मादिराकृतिगणः॥ ऊर्ध्वंदमाच्च ठञ् वक्तव्यः॥ और्ध्वंदमिकः। ऊर्ध्वशब्देन समानार्थ ऊर्ध्वं शब्दः॥ ऊर्ध्वदेहाच्च॥ और्ध्वदेहिकम्॥ लोकोत्तरपदाच्च॥ ऐहलौकिकम्। परलौकिकम्॥ मुखपार्श्वशब्दाभ्यां तसन्ताभ्यामीयः प्रत्ययो वक्तव्यः॥ मुखतीयम्। पार्श्वतीयम्॥ जनपरयोःकुक् च॥ जनकीयम्। परकीयम्॥ मध्यशब्दादीयः॥ मध्यीयः॥ मण्मीयौ च प्रत्ययौ वक्तव्यौ॥ माध्यमम्। मध्यमीयम्॥ मध्यो मध्यं दिनण् चास्मात्॥ मध्ये भवं माध्यन्दिनम्॥ स्थाम्नो लुग् वक्तव्यः॥ अश्वत्थामा॥ अजिनान्ताच्च॥ वृकाजिनः। सिंहाजिनः॥

समानस्य तदादेश्चाध्यात्मादिषु चेष्यते।

ऊर्ध्वंदमाच्च देहाच्च लोकोत्तरपदस्य च॥

मुखपार्श्वतसोरीयः कुग् जनस्य परस्य च।

ईयः कार्योऽथ मध्यस्य मण्मीयौ प्रत्ययौ तथा॥

मध्यो मध्यं दिनण् चास्मात् स्थाम्नो लुगजिनात्तथा ॥

Siddhanta Kaumudi

Up

अव्ययीभावादित्येव । वेश्मनि इति अन्तर्वेश्मम् । तत्र भवमान्तर्वेश्मिकम् । आन्तर्गणिकम् ॥<!अध्यात्मादेष्ठञिष्यते !> (वार्तिकम्) ॥ अध्यात्मं भवमाध्यात्मिकम् ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<अन्तःपूर्वपदाट्ठञ्>> - अन्तःपूर्वपदाट्ठञ् । अन्तर्वेश्ममिति । विभक्त्यर्थेऽव्ययीभावः ।अनश्चे॑ति टच् । आन्तर्वेश्मिकमिति । ठञ् । इकः । सुब्लुक् । टिलोपः । आदिवृद्धिः । आन्तर्गणिकमिति । गणे इत्यन्तर्गणम् । तत्र भवमित्यर्थः । आध्यात्मिकमिति । आत्मनीत्यध्यात्मम् । तत्र भवमित्यर्थः । आध्यात्मिकमिति । आत्मनीत्यध्यात्मम् । तत्र भवमित्यर्थः ।

Padamanjari

Up

आध्यात्मिकमिति । ठनश्चऽ इति टच् समासान्तः । आधिविदैकम्, आधिभौतिकमिति । अनुशतिकादित्वादुभयपदवृद्धिः । अध्यात्मादिराकृतिगण इति । एवं च समानशब्दादित्यादिरस्यैव प्रपञ्चः । ऊर्ध्वशब्देन समानार्थ ऊर्ध्वंशब्द इति । स चैतद्वृत्तिविषय एव । अपर आह -'ठञ्सन्नियोगेन दम शब्द उतरे ऊर्ध्वशब्दस्यैव मान्तत्वं निपात्यते' इति । ऊर्ध्वदेहाच्चेति । नात्र मान्तत्वम् । ऐहलौकिकमिति । पूर्ववदुभयपदवृद्धिः । मुखतीयम्, पार्श्वतीयमिति । मुख-पार्श्व-शब्दाभ्यां सप्तम्यान्ताभ्यामाद्यादित्वातसिः, तत ईयः, अव्ययत्वाट्टिलोपः । अयं गहादिपाठस्यैव प्रपञ्चः । एतेन परं व्याख्यातम् । मण्मीयाविति । गहादिषु'मध्यमध्यमं चाण् चरणे' इति यत्पठितं तत्र'पृथिवीमध्यवाची मध्यशब्दो गृह्यते' इत्युक्तम्, भवार्थे तु ततोऽन्यत्रापि मध्यमीयमिति यता स्यादिति मीयप्रत्ययवचनम् । जातादिषु पृथिवीमध्यवाचिन एव मध्यमीय इति भवति, न मध्यान्तरवाचिनः । तथा गहादिपाठेन पृथिवीमध्यं निवासा एषामित्यस्मिन्नेवार्थे माध्यमा इति सिध्यति, मध्यान्तरवाचिनो भवार्थेऽपि यथा स्यादिति मण् प्रत्यय उक्तः । मध्यो मध्यंदिनण् चास्मादिति । मध्यशब्दो मध्यभावमापद्यते दिनण्चास्मात् प्रत्ययो भवतीत्यर्थः । स्थाम्न इति । स्थामन्शब्दान्तादित्यर्थः । अश्वत्थामेति । अश्वस्येव स्थाम बलमस्येति बहुव्रीहिः, पृषोदरादित्वात्सकारस्य तकारः, ततो भवार्थे'स्थाम्नो' कारःऽ इत्यकारः तस्मानेन लुक् । वृकाजिन इति । अणो लुक् । समानस्य तदादेश्चेति । आनन्तर्यत्वलक्षणा षष्ठी । अध्यात्मादिष्विति । विषयसप्तमी उर्ध्वन्दामाच्च देहाच्चेति । ऊर्ध्वंशब्दाद्दमशब्दान्ताच्चेत्यर्थः । ऊर्ध्वपूर्वादेव च देहान्तादिष्यते । उक्तं हि प्राक् ठुर्ध्वदेहाच्च, और्ध्वदेहिकम्ऽ इति । स्थाम्नो लुगजिनातथेति । पाठे उभयत्रापि तदन्तविधिः ॥