4-3-59 अव्ययीभावात् च प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् तत्र भवः ञ्यः
index: 4.3.59 sutra: अव्ययीभावाच्च
अव्ययीभावसंज्ञाकात् प्रातिपदिकाच् च ञ्यः प्रत्ययो भवति तत्र भवः इत्येतस्मिन् विषये। अणोऽपवादः। न च सर्वस्मादव्ययीभावाद् भवति, किं तर्हि, परिमुखादेः। परिमुखादीनां च गणपाठस्य एतदेव प्रयोजनम्। तेषां विशेषणमव्ययीभावग्रहणम्। परिमुखं भवं पारिमुखम्। पारिहनव्यम्। परिमुखादेरन्यत्र न भवति, औपकूलम्। परिमुख। परिहनु। पर्योष्ठ। पर्युलूखल। परिसीर। अनुसीर। उपसीर। उपस्थल। उपकलाप। अनुपथ। अनुखड्ग। अनुतिल। अनुशीत। अनुमाष। अनुयव। अनुयूप। अनुवंश।
index: 4.3.59 sutra: अव्ययीभावाच्च
परिमुखं भवं पारिमुख्यम् ।<!परिमुखादिभ्य एवेष्यते !> (वार्तिकम्) ॥ नेह । औपकूलः ॥
index: 4.3.59 sutra: अव्ययीभावाच्च
अव्ययीभावाच्च - अव्ययीभावाच्च । 'ञ्य' इति शेषः । परिमुखादिभ्य इति । यद्यपीदं वार्तिकं भाष्ये न दृष्टं, तथापि दिगदिगणपाठानन्तरं परिमुखादिगणपाठसामर्थ्यादिहाव्ययीभावपदं परिमुखादिपरमिति गम्यते । न ह्रष्टाध्याय्यां परिमुखादिगणस्य कार्यान्तरमस्ति । औपकूल इति । उपकूलं भव इत्यर्थः । अव्ययीभावत्वेऽपि परिमुखाद्यनन्तर्भावान्न ञ्यः ।
index: 4.3.59 sutra: अव्ययीभावाच्च
किं तहिं परिमुखादेरिति । कथं पुनः सामान्योक्तावयं विशेषो लभ्यत इत्याह - परिमुखादीनां चेति । चशब्दो हेतौ । दिगादेरनन्तरं परिमुखादिगणः पठ।ल्ते, तस्य नान्यत्प्रयोजनं सम्भवति अव्ययीभावग्रहणस्य, परिमुखादिविशेषणतयाऽन्वयसम्भवात्, तस्मात्परिमुखादेरेव भविष्यति, न सर्वस्मादव्ययीभावात् । यद्येवम्, परिमुखादेरित्येव वक्तव्यमत आह - तेषामेवेति ।'परिमुखादेः' इत्युच्यमाने बहुव्रीहितत्पुरुषेभ्योऽपि ञ्यप्रत्ययः स्यात्, अव्ययीभावग्रहणातु तेभ्योऽणेव भवति । उतरार्थं चावश्यमव्ययीभावग्रहणं कर्तव्यम्, तत्र ये परिपूर्वास्तत्र यदि वर्जनं गम्यते ततः ठपपरिबहिरञ्चवः । पञ्चम्याऽ इत्यव्ययीभावः । अथ सर्वतो भावः, ततोऽस्मादेव निपातनादव्ययीभावः । उपपूर्वेषु सामीप्येऽनुपूर्वेषु ठनुर्यत्समयाऽ'यस्य चायामः' 'पश्चादर्थे यदव्ययम्' इति च यथाभिधानं समासः ॥