परावराधमोत्तमपूर्वाच्च

4-3-5 परावराधमोत्तमपूर्वात् च प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् अर्धात् यत्

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

पर अवर अधम उत्तम इत्येवंपूर्वाच् चार्धाद् यत् प्रत्ययो भवति शैषिकः। परार्ध्यम्। अवरार्ध्यम्। अधमार्ध्यम्। उत्तमार्ध्यम्। पूर्वग्रहणं किम्, परावराधमोत्तमेभ्य इत्येवोच्यते, अर्धादिति वर्तते। तस्य तत्पूर्वता विज्ञास्यते ? परावरशब्दावदिग्ग्रहणावपि स्तः, परं सुखम् अवरं सुखमिति। तत्र कृतार्थत्वाद् दिक्छब्दपक्षे परेण ठञ्यतौ स्याताम्। अस्मात् पूर्वग्रहणाद् यत् प्रत्ययो भवति — परार्ध्यम्, अवरार्ध्यमिति॥

Siddhanta Kaumudi

Up

परार्ध्यम् । अवरार्थम् । अधमार्ध्यम् । उत्तमार्ध्यम् ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<परावराधमोत्तमपूर्वाच्च>> - परावरअर्धाद्य॑दिति शेषः । अवरशब्दो दन्तोष्ठवकारमध्यः ।

Padamanjari

Up