ग्रीवाभ्योऽण् च

4-3-57 ग्रीवाभ्यः अण् च प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् तत्र भवः ढञ्

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

ग्रीवाशब्दादण् प्रत्ययो भवति, चकाराड् ढञ् च, तत्र भव इत्येतस्मिन् विषये। शरीरावयवाद् यतोऽपवादः। ग्रीवासु भवं ग्रैवम् , ग्रैवेयम्। ग्रीवाशब्दो धमनीवचनः, तासां बहुत्वाद् बहुवचनं कृतम्॥

Siddhanta Kaumudi

Up

चात् ढञ् । ग्रैवेयम् । ग्रैवम् ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<ग्रीवाभ्योऽण् च>> - ग्रीवाभ्योऽण् च ।शरीरावयवाच्चे॑ति यतोऽपवादः । ग्रीवाशब्दोऽयं धमनीसङ्गे वर्तते । तत्र उद्भूतावयवभेदसङ्गविवक्षायां बहुवचनान्तात्प्रत्यय इति सूचयितुं बहुवचनम् । तिरोहितावयवभेदविवक्षायां तु एकवचनान्तादप्यण्ढञौ स्त एव ।

Padamanjari

Up

धमनीवचन इति । धमनीसङ्घातवचन इत्यर्थः । स च यदोद्भूतावयवभेदे सङ्घाते वर्तते तदा बहुवचनम्, यदा तु तिरोहितावयवभेदे सङ्घाते वर्तते तदैकवचनान्तः प्रयोगः ॥