दृतिकुक्षिकलशिवस्त्यस्त्यहेर्ढञ्

4-3-56 दृतिकुक्षिकलशिवस्त्यस्त्यहेः ढञ् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् तत्र भवः

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

दृत्यादिभ्यः प्रातिपदिकेभ्यो ढञ् प्रत्ययो भवति तत्र भव इत्येतस्मिन् विषये। दृतौ भवं दार्तेयम्। कौक्षेयम्। कालशेयम्। वास्तेयम्। आस्तेयम्। आहेयमजरं विषम्। अस्तिशब्दः प्रातिपदिकम्, न तिङन्तः॥

Siddhanta Kaumudi

Up

दार्तेयम् । कौक्षेयम् । कलशिर्घटः तत्र भवं कालशेयम् । बास्तेयम् । आस्तेयम् । आहेयम् ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<दृतिकुक्षिकलशिवस्त्यस्त्यहेर्ढञ्>> - दृतिकुक्षि । भव इत्यर्थे दृति, कुक्षि, कलशि, वस्ति, अस्ति, अहि — इत्येभ्यः । 'सप्तम्यन्तेभ्यः' इति शेषः । दार्तेयमिति । दृतौ भवमित्यर्थः । ढञ्, एयः, आदिवृद्धिः, रपरत्वम् । दृतिश्चर्मभस्त्रिका । कौक्षेयमिति । दूमादित्वाद्वुञि प्राप्ते ठञ् । कलिशिर्घटः ।कलशिर्मथनपात्र॑मित्यमरव्याख्यातारः ।वस्तिर्नाभेरधो द्वयो॑रित्यमरः । तत्र भवो बास्तेयः । अस्तीति विभक्तिप्रतिरूपककमव्ययम् सत्तायां घने चेति न्यासकारो हरदत्तश्च । तत्र भव आस्तेयः । अहिः-सर्पः, तत्रभवः-आहेयः ।

Padamanjari

Up

दृतिश्चर्मविकारः, शरीरावयवश्च । कुक्षिशब्दो धूमादिः, वस्तिर्नाभेरधः शरीरावयवः । आहेयम् विषादि । अस्तिशब्दः प्रातिपदिकमिति । विभक्तिप्रतिरूपं निपातसंज्ञकम्, तच्च तिङ्न्तेन समानार्थम् - अस्तिक्षीरा गौरिति, धनवचनं च अस्तिमानिति ॥