4-3-54 दिगादिभ्यः यत् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् तत्र भवः
दिश् इत्येवमादिभ्यः प्रातिपदिकेभ्यो यत् प्रत्ययो भवति तत्र भव इत्येतस्मिन् विषये। अणश्छस्य चापवादः। दिशि भवं दिश्यम्। वर्ग्यम्। मुखजघनशब्दयोरशरीरावयवार्थः पाठः, सेनामुख्यम्, सेनाजघन्यमिति॥ दिश्। वर्ग। पूग। गण। पक्ष। धाय्या। मित्र। मेधा। अन्तर। पथिन्। रहस्। अलीक। उखा। साक्षिन्। आदि। अन्त। मुख। जघन। मेघ। यूथ। उदकात् संज्ञायाम् (ग० सू० १०३)। न्याय। वंश। अनुवंश। विश। काल। अप्। आकाश। दिगादिः॥
दिश्यम् । वर्ग्यम् ॥
दिश्यम्। वर्ग्यम्॥
<<दिगादिभ्यो यत्>> - दिगादिभ्यो यत् ।भव इत्यर्थे सप्तम्यन्तेभ्यः॑ इति शेषः । दिश्यमिमि । दिशि भवमित्यर्थः ।
सेनामुख्यमिति । यदन्तस्य सेनाशब्देन षष्ठीसमासः, न तु सेनामुख्यशब्दात्प्रत्ययः; तदन्तविध्यभावात् ॥