संवत्सराग्रहायणीभ्यां ठञ् च

4-3-50 संवत्सराग्रहायणीभ्यां ठञ् च प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् तत्र कालात् देयम् ऋणे

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

संवत्सराग्रहायणीशब्दाभ्यां ठञ् प्रत्ययो भवति, चकाराद् वुञ् च देयमृणमित्येतस्मिन्नर्थे। संवत्सरे देयमृणं सांवत्सरिकम्, सांवत्सरकम्। आग्रहायणिकम्, आग्रहायणकम्। वेति वक्तव्ये ठञ्ग्रहणं संधिवेलादिषु ४.३.१६ <<संवत्सरात् फलपर्वणोः>> (ग० सू० १०२) इति पठ्यते, तत्र फल ऋणत्वेन विवक्षितेऽणं बाधित्वा ठञेव यथा स्यादिति॥

Siddhanta Kaumudi

Up

चाद्वुञ् । सांवत्सरिकम् । सांवत्सरकम् । आग्रहायणिकम् । आग्रहायणकम् ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<संवत्सराग्रहायणीभ्यां ठञ् च>> - संवत्सराग्रहायणीभ्यां ठञ्च ।देयमृण॑मित्यर्थे सप्तम्यन्ता॑दिति शेषः । सन्धिवेलादिगणेसंवत्सरात्फलपर्वणोः॑ इति पठितम् । तत्र फले देयर्णत्वेन विवक्षिते प्राप्तोऽण् अनेन ठञा बाध्यते ।

Padamanjari

Up

वेति वक्तव्ये इति । वुञि विकल्पिते पक्षे यथा प्राप्तष्ठञेव भविष्यतीति मन्यते । ठञ्ग्रहणमित्यादि । असति ठञ्ग्रहणे सन्धिवेलादिषु'संवत्सरात्फलपर्वणोः' इति पाठात्फले ऋणत्वेन विवक्षिते वुञा मुक्तेऽणेत स्यात्, ठञ्ग्रहणातु ठञेव भवति ॥