ग्रीष्मावरसमाद्वुञ्

4-3-49 ग्रीष्मावरसमात् वुञ् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् तत्र कालात् देयम् ऋणे

Kashika

Up

index: 4.3.49 sutra: ग्रीष्मावरसमाद्वुञ्


ग्रीष्म अवरसमशब्दाभ्यां वुञ् प्रत्ययो भवति देयम् ऋणम् इत्येतस्मिन्नर्थे। अण्ठञोरपवादः। ग्रीष्मे देयम् ऋणं ग्रैष्मकम्। आवरसमकम्। प्रत्ययान्तरकरणं वृद्ध्यर्थम्। समाशब्दो वर्षपर्यायः।

Siddhanta Kaumudi

Up

index: 4.3.49 sutra: ग्रीष्मावरसमाद्वुञ्


ग्रीष्मे देयमृणं ग्रैष्मकम् । आवसरसमकम् ॥

Balamanorama

Up

index: 4.3.49 sutra: ग्रीष्मावरसमाद्वुञ्


ग्रीष्मावरसमाद्वुञ् - ग्रीष्मावरसमाद्वुञ् । समाशब्दो वत्सरे नित्यस्त्रीलिङ्गबहुवचनः । ग्रीष्म अवरसमा अनयोः समाहारद्वन्द्वात्पञ्चमी । तत्र देयमृणमित्यर्थे आभ्यां वुञित्यर्थः । आवरसमकमिति । अवरासु समासु देयमृणमित्यर्थः । 'तद्धितार्थ' इति समासः ।

Padamanjari

Up

index: 4.3.49 sutra: ग्रीष्मावरसमाद्वुञ्


अवरसममिति विशेषणसमासः । न चावरशब्दो दिग्वाची, येन'दिक्सङ्ख्ये संज्ञायाम्' इति नियमात्समासो न स्यात् । आवरसमकमिति । आगामिनां संवत्सराणामाद्यवत्सरे देयमित्यर्थः । अपर आह - अतीते वत्सरे देयं यदद्यापि न दतं तदावरसमकमिति ॥