अर्धाद्यत्

4-3-4 अर्धात् यत् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण्

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

अर्धशब्दाद् यत् प्रत्ययो भवति शैषिकः। अणोऽपवादः। अर्ध्यम्॥ सपूर्वपदाट् ठञ् वक्तव्यः॥ बालेयार्धिकम्। गौतमार्धिकम्॥

Siddhanta Kaumudi

Up

अर्ध्यः ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<अर्धाद्यत्>> - अर्धात् । अध्र्य इति । अर्धे जातादिरित्यर्थः ।सपूर्वपदाट्ठञ् वाच्यः॑ इति वार्तिकं भाष्ये स्थितम् । बालेयार्धिकः ।

Padamanjari

Up

बल्यर्थं वस्तु बालेयम्, तस्यार्धमुएकदेशः, तत्र भवं बालेयार्द्धिकम् ॥