4-3-48 कलाप्यश्वत्थयवबुसात् वुन् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् तत्र कालात् देयम् ऋणे
कालादित्येव। कलापिन् अश्वत्थ यवबुस इत्येतेभ्यः कालवाचिभ्यः सप्तमीसमर्थेभ्यो देयमृणमित्येतस्मिन्नर्थे वुन् प्रत्ययो भवति। कलाप्यादयः शब्दाः साहचर्यात् काले वर्तन्ते। यस्मिन् काले मयूराः कलापिनो भवन्ति, स कलापी। यस्मिन्नश्वत्थाः फलन्ति सोऽश्वत्थः। यस्मिन् यवबुसं संपद्यते स यवबुसशब्देनोच्यते। कलापिनि काले देयमृणम्, कलापकम्। अश्वत्थकम्। यवबुसकम्॥
यस्मिन् काले मयूराः कलापिनो भवन्ति स उपचारात्कलापी तत्र देयमृणं कालापकम् । अस्वत्थस्य फलमस्वत्थस्तद्युक्तः कालोप्यश्वत्थः । यस्मिन् काले अश्वत्थाः फलन्ति तत्र देयमश्वत्थकम् । यस्मिन् यवबुसमुत्पद्यते तत्र देयं यवबुसकम् ॥
<<कलाप्यश्वत्थयवबुसाद्वुन्>> - कलाप्यआत्थ । कलापिन्, अआत्थ, यवबुस — एभ्यः कालवाचिभ्यः सप्तम्यन्तेभ्यो देयमृणमित्यर्थे वुन्स्यादित्यर्थः । कलापकमिति । वुन् । अकादेशः । 'नस्तद्धिते' इति टिलोपः । अआत्थ इति । विकारप्रत्ययस्य फले लुगिति भावः । अआत्थशब्दस्य प्लक्षादित्वे तु ततःप्लक्षादिभ्योऽ॑णिति फले अणो विधानसामर्थ्याल्लुगभावे अआत्थशब्दः फले लाक्षणिक इति भावः ।
मयूरादिषु प्रसिद्धानां कलाप्यादीनां शब्दानां काले वृत्तिर्न सम्भवति, तत्कथम्'कालविशेषविचिभ्यः' इत्युक्तम् ? अत आह - कलाप्यादयः शब्दा इति । अश्वत्थेन वृक्षेण कालस्य सम्बन्धोऽव्यबिचारादविशेषणमिति'फले लुक्' इति लुगन्तोऽश्वत्थशब्द इत्याह - यस्मिन्नश्वत्थाः फलन्तीति । अपकृष्टे यवो यवबुसं जात्यन्तरं वा यवादिवत्, यवानामेव वा बुसं यवबुसम् ॥