ग्रीष्मवसन्तादन्यतरस्याम्

4-3-46 ग्रीष्मवसन्तात् अन्यतरस्याम् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् तत्र कालात् उप्ते

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

ग्रीष्मवसन्तशब्दाभ्यामन्यतरस्यां वुञ् प्रत्ययो भवत्युप्तेऽर्थे। ऋत्वणोऽपवादः। ग्रैष्मकम्, ग्रैष्मं सस्यम्। वासन्तकम्, वासन्तम्॥

Siddhanta Kaumudi

Up

पक्षे ऋत्वण् । ग्रैष्मकम् । ग्रैष्मम् । वासन्तकम् । वासन्तम् ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<ग्रीष्मवसन्तादन्यतरस्याम्>> - ग्राष्मवसन्तात् । ग्रीष्माद्वसन्ताच्च सप्तम्यन्तादुप्ते वुञ्वेत्यर्थः ।

Padamanjari

Up