4-3-45 आश्वयुज्याः वुञ् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् तत्र कालात् उप्ते
आश्वयुजीशब्दाद् वुञ् प्रत्ययो भवत्युप्तेऽर्थे। ठञोऽपवादः। आश्वयुज्यामुप्ता आश्वयुजका माषाः। अश्विनीभ्यां युक्ता पौर्णमासी, आश्वयुजी। अश्विनीपर्यायोऽश्वयुक्शब्दः॥
ठञोऽपवादः । आश्वयुज्यामुप्ता आश्वयुजका माषाः ॥
<<आश्वयुज्या वुञ्>> - आआयुज्या वुञ् । तत्रोप्य इत्येव । सप्तम्यन्तादाआयुजीशब्दादुप्तेऽर्थे वुञ्स्यादित्यर्थः । ठञोऽपवाद इति ।कालाट्ठ॑ञिति विहितस्येत्यर्थः । आआयुजका इति । अआयुग्भ्यां युक्ता पौर्णमासी आआयुजी, तत्रोप्ता इत्यर्थः ।
वुञो ञकारः स्वरार्थः, उतरत्र वृद्ध्यर्थश्च, अश्वयुग्भ्यां युक्तेति पाठः, अश्वयुजोद्वित्वात्'नमो' श्विभ्यामश्वयुग्भ्याम्ऽ इति दर्शनात् । अश्विनीपर्याय इति पाठः ।'तारा अश्वयुगश्विनी' इत्यमरसिहः । अश्वनीपर्यायैति प्रसिद्धः पाठः, तत्राशुपूर्वादनेरौणादिक इन्प्रत्ययः, पृषोदरादित्वादादेर्ह्रस्वः ॥