4-3-42 कोशात् ढञ् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् तत्र सम्भूते
कोशशब्दाद् ढञ् प्रत्ययो भवति तत्र संभूत इत्यस्मिन् विषये। अणोऽपवादः। कोशे संभूतं कौशेयं वस्त्रम्। रूढिरेषा, तेन क्रिमौ न भवति, खड्गकोशात् च॥
कौशेयं वस्त्रम् ॥
कौशेयम् वस्त्रम्॥
<<कोशाड्ढञ्>> - कोशाड्ढञ् । कौशेयं वस्त्रमिति । कृमिविशेषकोशस्य विकार इत्यर्थः ।विकारे कोशाड्ढ॑ञिति वार्तिकात् ।
कौशीयं वस्त्रमिति । ननु च न वस्त्रं कोशे सम्भवति, वस्त्रदायां तत्कारणस्य कोशस्य परावृतत्वात्, न च कोशान्तरे वस्त्रस्य सम्भवः, न च तत्रेष्यते, तस्माद्विकारे कोशाड्ढञ् सम्भूते ह्यर्थानुपपतिरिति वार्तिकमेव शरणम् ।'तस्य विकारः' इत्यत्र प्रकरणे ठेण्या ढञ्ऽ इत्यस्यानन्तरम्'कोशाच्चेति वक्तव्यम्' इत्यर्थः । अर्थानुपपतिरिति । कौशेयशब्दस्य योऽर्थो लौकिकः सूत्रवस्त्रलक्षणस्तस्यानुपपतिः स्यात्, लौकिकोऽर्थः शास्त्रेण नानुसृतः स्यात् । कृमिरेव त्वभिधेयः प्राप्नोति स हि कोशे सम्भवति । किञ्चाविशेषाभिधानात्खङ्गकोशादपि प्रत्ययः प्रसज्येत, इत्यत आह - रूढिरेषेति । रूढिशब्देषु नावश्यमवयवार्थोऽन्वेष्यः, यथा तैलपायिकादिष्विति मन्यते । सूत्रकारेण तु सत्कार्यवलादाश्रयेण सम्भूते प्रत्ययो विहितः, तत्र हि कारणदशायामपि कार्यस्य सत्वात् तत्र तत्सम्भवति तदनुपपन्नम् । कार्यकारणयोर्हि तादात्म्यमभिसम्बन्धः, न त्वाधाराधेयभावः ॥