उपजानूपकर्णोपनीवेष्ठक्

4-3-40 उपजानूपकर्णोपनीवेः ठक् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् तत्र प्रायभवः

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

उपजान्वादिभ्यः शब्देभ्यः सप्तमीसमर्थेभ्यः प्रायभव इत्येतस्मिन् विषये ठक् प्रत्ययो भवति। अणोऽपवादः। औपजानुकः। औपकर्णिकः। औपनीविकः॥

Siddhanta Kaumudi

Up

औपजानुकः । औपकर्णिकः । औपनीविकः ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<उपजानूपकर्णोपनीवेष्ठक्>> - उपजानूपकर्ण । 'प्रायभव' इत्यर्थे उपजानु उपकर्ण उपनीवि इत्येभ्यष्ठगित्यर्थः । उपजान्वादिषु सामीप्येऽव्ययीभावः । औपजानुक इति । जानुनः समीपमुपजानु । तत्र प्रायभव इत्यर्थः । उगन्तात्परत्वाट्ठस्य कः । औपकर्णिक इति । कर्णस्य समीपमुपकर्ण, तत्पर प्रायभव इत्यर्थः । औपनीविक इति । नीवेः समीपमुपनीवि, तत्र प्रायभव इत्यर्थः ।

Padamanjari

Up

उपजान्वादयः सामीप्येऽव्ययीभावाः, समाहारद्वन्द्वस्य सौत्रः पुंल्लिङ्गनिर्देशः ॥